________________
३५४
5
10
15
20
[ चतुर्थम्
न्यायमञ्जय
अन्यत्वे किं प्रमाणं ननु तव सुमते किं तदैक्यप्रमाणं ध्वस्तं तावत् समस्तं भुवनमिति तदा वेदनाशोऽप्यवश्यम् । एकस्त्वशोऽवशिष्टः स च रचयति वा प्राक्तनं संस्मरेद् वा वेदे स्वातन्त्र्यमस्मान्नियतमुभयथाप्यस्ति चन्द्रार्धमौलेः ॥ एकस्य तस्य मनसि प्रतिभासमानो
वेदस्तदा हि कृतकान्न विशिष्यतेऽसौ । प्रत्यक्षसर्व विषयस्य तु नेश्वरस्य ता स्मृतिः करणमेव ततोऽनवद्यम् ॥ तेनाप्तनिमिततयैव निरत्ययार्थसम्प्रत्ययोपजननाय जनस्य वेदे । शास्त्रं सुविस्तरमपास्त कुतर्कमूलमोहप्रपश्वमकरोन्मुनिरक्षपादः ॥
प्रामाण्येऽपि नाथर्ववेदस्येति शङ्का
अत्र कश्चिदाह, युक्तमितरेतरव्यतिषक्तार्थोपदेशित्वेनै ककर्तृकत्वानुमानद्वारकं त्रिवेद्याः प्रामाण्यम्, अथर्ववेदस्य तु त्रय्याम्नातधर्मोपयोगानुपलब्धेस्त्रयीबाह्यत्वेन (न? ) तत् समानयोगक्षेमत्वम् । अनपेक्षत्वलक्षणप्रामाण्यपक्षेऽपि विक्षिप्त
कथितेत्यर्थः । नेश्वरस्य युक्ता स्मृतिरिति । स्मृतिर्हि परोक्षे भवति, तस्य च सकलदशित्वात् तदानीमनुभव एव वैदिकानां शब्दानां वक्तव्यः । अनुभवाश्रयणे च वर्तमानकालविशिष्टस्यानुभवोऽङ्गीकार्यः तत्कालविशिष्टस्य वा ? तत्कालविशिष्टस्यानुभवे वर्तमाने सर्गे प्राणिनां वेदाग्रहणं स्यात्, वर्तमानकालविशिष्टस्य त्वनुभवे प्रात्तनादन्यत्वात् प्राङ्नीत्या शब्दानित्यत्वादवश्यमपूर्वकरणमे त्रायाति । संस्काराच्च ज्ञाने विनष्टे कालान्तरे संस्कारप्रबोधात् स्मृतिर्भवति, नित्यज्ञानत्वाच्च भगवतः कथं स्मृति - सम्भव इति ।
अनपेक्षत्वलक्षणप्रामाण्यपक्षेऽपीति । मीमांसकपक्ष इत्यर्थः । होत्रध्वर्य्यादि25 व्यापाराणां व्यतिषङ्गः परस्परसम्बन्धः ।