________________
३५३
आह्निकम् ]
प्रमाणप्रकरणम्
समाश्वसिति लोकः। न चोपकारकमात्रलक्षणावेव धर्माधमौ वक्तुं युज्येते, जपशीधुपानादौ तदभावात् गुरुदारगमनादौ च विपर्ययात्, इत्यवश्यं शास्त्रशरणावेव तावेषितव्यौ।
अपि चेदमिष्टिसत्रादिकमेव फलम् । अयमस्मिन्नधिकृत इति। इयमितिकर्तव्यता, एष देश, इमे ऋत्विज इत्यादि कि लोकप्रसिद्धरधिगन्तुं शक्यते ? तस्मा- 5 दवश्यं शास्त्राधीन एव विशिष्टकर्मावबोध एषितव्यः। शास्त्रञ्च वेद एवेत्युक्तम् । अतस्तस्य निर्विवादसिद्धमेव प्रामाण्य मिति ।
एतावता कर्मप्रभृतीनामनादित्वे वेदस्यानादित्वान्नित्यत्वमपीति शङ्कानिरसनम् ___ एवन्तु वर्ण्यमाने संसारानादित्वं तावदुक्तं स्यात् । वेदस्यानादित्वं कर्मज्ञाना- 10 नादित्वात् । यतश्च मीमांसकवर्मनैव प्रमाणता सिद्धयति नाप्तवादात्, तस्माद् यथोदाहृत एव मार्गः प्रमाणतायामनुवर्तनीयः । अथवा
वयमपि न विशिष्पोऽनादिसंसारपक्षं युगपदखिलसर्गध्वंसवादे तु भेदः । अकथि च रचनानां कार्यता तेन सर्गात
15 प्रभृति भगवतेदं वेदशास्त्रं प्रणीतम् ॥ अनादिरेवेश्वरकर्तृकोऽपि सदैव सर्गप्रलयप्रबन्धः । सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्योऽपि जनस्य सिध्येत् ॥
20
धर्म इत्येवमादिरूपोऽनेकप्रकारो यस्याः। गुरुदारगमनादौ च विपर्ययात् । निषिद्धत्वेनाधर्मरूपेऽप्युपकारापेक्षया धर्मत्वप्राप्तेः।।
इष्टिसत्रादीति । इष्टयो दर्शपूर्णमासाद्याः सत्राणि द्वादशाहादीनि ।
युगपदखिलसर्गेति। अस्माकमप्यनादिरेव संसारः। कदाचित् तु युगपत् सर्वं प्रलीय पुनरुद्भवति । भवतान्तु क्रमेण सृष्टिप्रलयाविति विशेषः । अथि च रचनानां कार्यता