________________
३५२ न्यायमञ्जयां
[चतुर्थम् नाविदितस्वरूपाणां कर्मणामुपपन्नम्। अजानन् पुरुषस्तपस्वी किमनुतिष्ठेत् ? तदवश्यं ज्ञात्वानुष्ठेयानि कर्माणि । तदिदानी तेषां परिज्ञाने कोऽभ्युपायः ? न प्रत्यक्षमस्मदादीनां स्वर्गाद्यदृष्टपुरुषार्थसाधनानि कर्माणि दर्शयितुं प्रभवति ।
नाप्यनुमानम्, अन्वयव्यतिरेकाभ्यां तृप्तिमोजन्मोरिव स्वर्गयागयोः साध्य5 साधनसम्बन्धानवधारणात् । जगद्वैचित्र्यान्यथानुपपत्त्या तु विचित्रं कारणमात्र मनुमीयते न च तावतानुष्ठानसिद्धिः । उक्तञ्च
___ अधर्मे धर्मरूपे वाप्यविभक्त फलं प्रति ।
किमप्यस्तीति विज्ञानं नराणां क्वोपयुज्यते ॥ इति ।
उपमानन्त्वत्र शङ्कयमानमपि न शोभते। नापि परस्परमुपदिशन्तो लौकिकाः 10 कर्माणि परलोकफलानि जानीयुरिति वक्तुं युक्तम्, अज्ञात्वा उपपादयतासाप्त
त्वायोगात् । ज्ञानन्तु लौकिकानां दुर्घटं प्रमाणाभावाद् इत्युक्तत्वात् । एवमेव हि पुरुषोपदेशपरम्पराकल्पनायामन्धपरम्परान्यायः स्यात् । तस्माद् अवश्यमभ्युपगतपरलोकैः परलोकफलानि कर्माणि कुर्वद्भिः शास्त्रात् कर्मावबोधोऽभ्युपगन्तव्यः । शास्त्रञ्च वेदा एवेति सिद्धं तत्प्रामाण्यम् । लोकप्रसिद्धेर्न धर्माधर्मज्ञापकत्वम्
ननु लोकप्रसिद्धित एव धर्माधर्मसाधनानि कर्माणि ज्ञा:यन्ते, कि शास्त्रेण? उपकारापकारौ हि धर्माधर्मयोर्लक्षणमिति प्रसिद्धमेवैतत् । तथाह व्यासः
इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये।
आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥ इति । . नैतद्युक्तम् । लोकप्रसिद्धनिर्मूलायाः प्रमाणत्वानुपपत्तः । लोकासिद्धिर्नाम लौकिकानामविच्छिन्ना स्मृतिः। स्मृतिश्च प्रभवन्ती प्रमाणान्तरमूला भवति न स्वतन्त्रेत्यवश्यमस्या मूलमन्वेषणीयम् । तच्च प्रत्यक्षादि नोपपद्यते इति नूनं शास्त्रमूलव लोकप्रसिद्धिः, विरुद्धानेकप्रकारत्वाच्च लोकप्रसिद्धर्न तस्यां स्वतन्त्रायां
___ अधर्मे धर्मरूपे वेति । विचित्रं धर्माधर्माख्यं कारणमात्रमर्थापत्त्यावगम्यते, न पुनर्विभागेनापत्तितोऽवगतिरस्ति, अनुष्मात् कर्मणोऽनुष्ठिताद् इदमिटं फलमवाप्यतेऽनुष्मात्त्विदमनिष्टमिति । क्वोपयुज्यतेऽनुष्ठानानौपयिकत्वात् ।
पदद्वये वस्तुद्वये । विरुद्धानेकप्रकारत्वादिति । विरुद्धो घूकचटकन्यायेन हिंसा