________________
प्रमाणप्रकरणम्
आह्निकम् ]
१५१ नन्वत्रापि न वैद्यकं विरचयन् दृष्टो मुनिः सर्ववित् तद्व्याप्तिग्रहणं जने यदि मृषायुर्वेदसङ्कीर्तनम् । सत्यं किन्तु दृढा तथापि चरकाद्याप्तस्मृतिर्वैद्यके नासौ चार्यनिबन्धनेति कथिता तस्येह दृष्टान्तता ॥ इत्यायुर्वेदवाक्यप्रभृतिषु भवति व्याप्तिराप्तोक्ततायाः पूर्वोक्तेन क्रमेण स्फुटमकथि तथा पक्षधर्मत्वमस्याः। न प्रत्यक्षागमाभ्यामपहृतविषया नानुमानान्तरेण व्याधूता वेति सैषा भजति गमकतां पञ्चरूपोपपत्तेः॥ अनपेक्षतया न वेदवाचां घटते निष्प्रतिमः प्रमाणभावः । क्व गिरामयथार्थतानिवृत्तिः पुरुषप्रत्ययमन्तरेण दृष्टा ॥
तत्प्रत्ययाद् बहुतरद्रविणव्ययादिसाध्येषु कर्मसु तपःसु च वैदिकेषु । युक्तं प्रवर्तनमबाधनकेन नैव
तसिद्धिरित्यलमसम्मत एष मार्गः ॥ तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणमिति सिद्धम्। वेदप्रामाण्यसाधने प्रकारान्तरम्
अन्ये त्वन्यथा वेदप्रामाण्यं वर्णयन्ति । तस्य हि प्रामाण्येऽभ्युपगतपरलोकोऽ. नभ्युपगतपरलोको वा परो विप्रतिपद्यते । तत्रानभ्युपगतपरलोकं प्रति तावदात्मनित्यतादिन्यायपूर्वकं परलोकसमर्थनमेव विधेयम् । परलोकवादिनान्तु मते यदेतत् सुखिदुःख्यादिभेदेन जगतो वैचित्र्यं दृश्यते तदवश्यं कर्मवैचित्र्यनिबन्धनमेव। २० कर्माणि चाननुष्ठितानि नात्मानं लभन्ते । अलब्धात्मनाञ्च नभःकुसुमनिभानां कुतो विचित्रसुखदुःखादिफलसाधनत्वम् ? तस्मादनुष्ठानमेषामेषितव्यम्। अनुष्ठानश्च
तद्व्याप्तिग्रहणं जने यदीति । लोके सत्यार्थमाप्तप्रणीतं वचो दृष्टम्, वचनमपि च सत्यार्थम्, तस्मादाप्तप्रणीतमिति । मृषायुर्वेदसङ्कीर्तनम् । येन तस्याप्तप्रणीतत्वं सिद्धयति तेनैव वेदस्य सेत्स्यतीति । अकथि कथितम् अनपेक्षतया न वेदवाचामिति । नित्यत्वेन पुरुषगुणापेक्षाया अभावादित्यर्थः ।