________________
न्यायमञ्जय
[ तृतीय न
ननु अविदुषामुपदेशो नावकल्पते इति विद्वांसश्वरकादयः कल्प्यन्ताम्, ते तु प्रत्यक्षेणैव सर्वं विदितवन्त इत्यत्र किं मानम् ? उच्यते । अन्वयव्यतिरेक योनिरासान्नानुमानस्यैष विषयः, वेदमूलत्वमपि मत्वादिस्मृतिवदयुक्तं कल्पयितुम्, कर्त्ता सामान्यासम्भवादिति वर्णयिष्यामः । पुरुषान्तरोपदेशपूर्वकत्वे चरकेणैव 5 किमपराद्धम् ? उपमानमनाशङ्कनीयमेवास्मिन्नर्थे । अर्थापत्तिस्तु न प्रमाणान्तरम्, अप्रामाण्यन्तु नास्ति बहुकृत्वः संवाददर्शनात्, अतः परिशेषात् प्रत्यक्षीकृतदेशकाल - पुरुषदशाभेदानुसारिसमस्तव्यस्तपदार्थसार्थ शक्तिनिश्चयाश्चरकादय इति युक्तं कल्पयितुम् । यद्येवं कथं तर्हि सोमराज्यादिवाक्येषु व्यभिचारः ? व्यभिचारे चार्धजरतीयमित्युक्तम्, नैष दोषः, कर्मकर्तृ साधनवैगुण्यादेषु व्यभिचारो भविष्यति, वैदिकेषु च कर्मसु मीमांसकस्य समानो दोषः ।
10
३५०
15
कार्यादा का ते वार्त्ता यस्यां न स्यादिष्टौ वृष्टिः । वैगुण्यञ्चेत् कर्त्रादीनामत्राप्येवं शक्यं वक्तुम् ॥ यदि विधुरमभुक्तं कर्म शास्त्रीयमन्यत् फलविघटन हेतुः कल्प्यते सापि तुल्यः । क्वचिदथ फलसम्पद् दृश्यते तत्प्रयोगे तदिह दृढशरीराः सन्ति दीर्घायुषश्च ॥
25
आयुर्वेदश्च तस्मादाप्तकृतो नान्यमूल इति सिद्धम् । एवं फलवेदादौ प्रकाशमाप्तप्रणीतत्वम् ॥
तस्माद्
आप्तोक्तत्वस्य सिद्धमायुर्वेदादौ व्याप्तिग्रहणम् । व्याप्तिप्रदर्शनायै व 20 सूत्रकृता "सद्विविधो दृष्टादृष्टार्थत्वात्" इत्युक्तम् । दृष्टार्थशब्दे गृहीताविनाभावमातोक्त्वम्, अदृष्टार्थेऽपि प्रामाण्यं साधयतीति । अत एवोक्तम्, “ मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्" इति ।
ते तु प्रत्यक्षेणैव सर्वं विदितवन्तो न पुनरनुमानागमाभ्यामपीति । अविदुषामुपदेशो नाव कल्पत इत्यनया युक्त्या विद्वांसः कल्पन्तां नामेति ।
एवं फलवेदादाविति । फलवेदः शस्यपालशास्त्रम् ।