________________
आह्निकम् ]
प्रमाण प्रकरणम्
या द्रव्यशक्ति रेकत्र पुंसि नासौ नरान्तरे । हरीतक्यापि नोद्भूतवातकुष्ठे विरेच्यते ॥ शरद्युद्रिक्तपित्तस्य ज्वराय दधि कल्पते । तदेय भुक्तं वर्षासु ज्वरं हन्ति दशान्तरे ॥ न चोपलक्षणं किञ्चिदस्ति तच्छवितवेदने । येनैकत्र गृहीतासौ सर्वत्रावगता भवेत् ॥
यो वा ज्ञातुं प्रभवति पुरुषस्तत्सामर्थ्यं निरवधिविधयम् । स्यात् सर्वज्ञः स इति न विमतिस्तस्मिन् कार्या स्ववचनकथितः ॥
आयुर्वेदस्य सर्वज्ञ प्रणीतत्वसाधनम्
६४९
नवस्मृतवन्धपरम्परादोषः कस्यचित् साक्षाद् द्रष्टुभावादिति । यथा कुम्भं करोतीति कुम्भकार इत्यत्र "कर्मण्यण्" तथा हिमवन्तं शृणोतीत्यत्र कस्मान्न भवतीति चोदिते सयाह-इह न भवत्यनभिधानादिति ।
5
अयोच्यते, अनादिरेवैषा चिकित्सकस्मृतिर्व्याकरणादिस्मृतिवत्, संक्षेपविस्तरविवक्षयैव चरकादयः कर्त्तारो न तु ते सर्वदर्शिनः । न च स्मृतावन्धपरम्परादोषः, समूलत्वात् । व्याकरणस्मृतेः शिष्टप्रयोगो मूलमेवमिहान्वयव्यतिरेकौ । शिष्ट विरोधे सति यथा मूलविरोधिनी पाणिन्यादिस्मृतिरप्रमाणं तथा चाहु 'रिह न भवत्यनभिधानादिति, एवं वैद्यस्मृतिरप्यन्वयव्यतिरेकविरुद्धा न प्रमाणमिति । तदेतदयुक्तम् । अन्वयव्यतिरेकयोर्यथोक्तनयेन परिच्छेदासम्भवेन तन्मूलत्वानुपपत्तेः । यदि ह्यन्वयव्यतिरेकाभ्यामशेष द्रव्यशक्तीनिश्चित्य चरकादिभिविरचितं शास्त्र - मिति ईदृशमन्वयव्यतिरेकित्वमुच्यते, तदपाकृतम् । अद्यत्वे यावन्तावन्वयव्यतिरेकौ वयसुपलब्धुं शक्नुमस्तावद्भ्यां ताभ्यामेकदेशसंवादात् प्रामाण्यकल्पनात् तत्र प्रवर्त्तनं
15
तान्त शास्त्रस्य मूलं अवितुमर्हतः, सर्वैरस्मदादिभिस्तादृशशास्त्रप्रणयनप्रसङ्गात् । अनादित्वमपि शास्त्राणां वेदवदनुपपन्नम्, चरकादिकर्तृस्मृतेः, कालिदासादिस्मृतिवदविगीतत्वात् न च चिकित्सास्मरणप्रबन्ध एवमनादिः, तथात्वेऽन्धपरम्पराकारणानवधारणात् । न च तदुक्तं तन्मूलं भवितुमर्हति व्युदस्तत्वात्, तस्मात् सर्वज्ञप्रणीत एवायुर्वेदः ।
10
20
25