________________
३४८ न्यायमञ्जयां
[चतुर्थम् नाम प्रामाण्यम्, उत्थितन्तु तदाप्तोक्तत्वात् । प्रत्यक्षादावप्यर्थक्रियाज्ञानसंवादात् प्रामाण्यस्य ज्ञप्तिरुत्पत्तिस्तु गुणवत्कारककृतेत्युक्तम् । नद्यादिवाक्यानि च विप्रलम्भकपुरुषभाषितानि विसंवदन्ति लोके दृश्यन्ते, तेनाप्तप्रणीतत्वमेव तेषां प्रामाण्यकारणम्, कारणशुद्धिमन्तरेण सम्यक्प्रत्ययानुत्पादात् । निश्चयोपायस्तु प्रत्यक्षं भवतु न तु तत्कृतमेव प्रामाण्यम् । अतो युक्तमाप्तोक्तताया आयुर्वेदादौ व्याप्तिग्रहणम् ।
नन्वेवमपि न युक्तम्, आप्तोक्तत्वस्य तत्र परिच्छेत्तुमशक्यत्वात्। अन्वयव्यतिरेकमूलमेवायुर्वेदवाक्यानां प्रामाण्यं नाप्तकृतम् । अन्वयव्यतिरेकौ च यावत्येव
दृश्येते तावत्येवार्थे प्रामाण्यम्, यथा हरीतक्यादिवाक्यार्थे । यत्र तु तयोरदर्शनं 10 तत्र अप्रामाण्यम्। यथा सोमराज्युपयोगे समाः सहस्र जीव्यते। आप्ते तु कल्प्यमानेऽ
र्धजरतीयं स्यात्, अर्धे तस्याप्तत्वमर्धे च कथमनाप्तत्वमिति । तदिदमनुपपन्नम, अन्वयव्यतिरेकयोर्ग्रहीतुमशक्यत्वात्। तौ हि स्वात्मनि वा ग्रहीतुं शक्यते व्यक्त्यन्तरे वा। व्यक्त्यन्तरेऽपि सर्वत्र क्वचिदेव वा व्यक्तिविशेषे । सर्वथा संकटोऽयं पन्थाः। व्याधीनां तन्निदानानां तदुपचयानां तदुपशमोपायानामौषधानां तत्संयोगवियोगविशेषाणां तत्परिमाणानां तदसवीर्यविपाकानां देशकालपुरुषदशाभेदेन शक्तिभेदस्यकेन जन्मना ग्रहीतुमशक्यत्वात्, जन्मान्तरानुभूतानाञ्च भावानामस्मरणात् ।
जनोऽनन्तस्तावनिरवधिरिह व्याधिनिवहो न संख्यातुं शक्या बहुगुणरसद्रव्यगतयः । विचित्राः संयोगाः परिणतिरपूर्वेति च कुतः चिकित्सायाः पारं तरति युगलक्षैरपि नरः॥ यदेव द्रव्यमेकस्य धातोर्भवति शान्तये।
योगान्तरात् तदेवास्य पुनः कोपाय कल्पते ॥ ___अर्धजरतीयं स्यादिति । यथा जरत्या अर्धं जघनमेव कामयतेऽधं न वदनादि ।
अथवान्नादिसंस्कारचातुर्येण तां कामयते भद्रिका प्रतिपद्यते न तूपभोगेत्यर्घजरतीयम् । 25 तत्परिमाणानामिति । अस्य द्रव्यस्येयान् भागोऽस्येयानिति । यथा 'कर्षः कर्षोऽर्धपलं
पलत्रयं स्यात्, तथार्धकर्षश्च । मरिचस्य पिप्पलीनां दाडिमगुडयावकशूकानाम्' इत्यादी . परिमाणविशेषः संयोगविशेषश्च ।