________________
आह्नकम्
प्रमाणप्रकरणम्
:४७
विध्यर्थवादमन्त्राणामुपयोगश्च वक्ष्यते। न मात्रामात्रमप्यस्ति वेदे किञ्चिदपार्थकम् ॥ शब्दब्रह्मविवादिकल्पनाश्च पुरोदिताः ।
सर्वाः परिहरिष्यन्ते कार्यत्वस्य विरोधिकाः ॥ इत्थञ्च स्थिते किमन्यदवशिष्टं वेदेष्वाप्तोक्ततानिश्चयस्य ? सोऽयं सकलशास्त्रार्थस्थितौ सत्यां पक्षधर्मत्वनिश्चयो हेतोराप्तोक्तत्वस्य गीयते । आप्तोक्तत्वनिश्चये मानाभावनिरसनम्
यत्तु प्रत्यक्षमनुमानं वा तनिश्चयानिमित्तमिति विकल्पितं तत्र प्रत्यक्षमास्ताम् । अनुमानानि तु यानि रचनात्वादीन्युक्तानि यानि च परदर्शनद्वींषि वक्ष्यन्ते तानि सर्वाण्याप्तोक्ततायाः पक्षधर्मतासिद्धौपयिकानीत्यलं विस्तरेण।
___ व्याप्तिःपुनरस्य हेतोरायुर्वेदादिवाक्येषु निश्चीयते। पिप्पलीपटोलमूलादेरप्यौषधस्येत्थमुपयोगादिदमभिमतमासाद्यते, अस्य च क्षीरतक्रादिविरोध्यशनस्य परिहारादिदमनिष्टमुपशाम्यतीत्यादिष्वायुर्वेदशास्त्रेषु प्रत्यक्षेण तस्यार्थस्य तथा निश्चयादर्थाविसंवादित्वं नाम प्रामाण्यं प्रतिपन्नम्। तच्चेदमाप्तवादप्रयुक्तम्, यतो यत्राप्तवादत्वं तत्र प्रामाण्यमिति व्याप्तिर्गृह्यते। तथा मन्त्राणां प्रयोगे वृश्चिक भुजगदष्टस्य 15 भक्षितविषस्य वा निविषत्वम्, अपस्मारपिशाचरूपिकागृहीतस्य तदुन्मोचनम्, अतिरभसोज्जिहानेषु दुष्टमेघेषु सस्यरक्षणमित्येवमुपलब्धम् । अतस्तेषां विषभूताशनिशमनकुशलानामाप्ता उपदेष्टार इति तत्रापि तथैव व्याप्तिनिश्चयः । आयुर्वेदादीनां नातोक्तत्वात् प्रामाण्यम् इति शङ्कानिरसनम्
__नन्वायुर्वेदादौ प्रामाण्यं प्रत्यक्षादिसंवादात् प्रतिपन्नम्, नाप्तप्रामाण्यात्। अतः कथमाप्तोक्तत्वस्य तत्र व्याप्तिग्रहणम् ? नैतदेवम् । प्रत्यक्षादिसंवादात् तन्निश्चीयतां
शब्दब्रह्म इति । शब्दब्रह्मणोऽनादिनिधनस्यायमाद्यो विवर्तो वेदाः न पुनः केनचित् कृता इति वैयाकरणा यदाहुः “त्रयीरूपेण तज्ज्योतिः प्रथमं परिवर्तते" इत्यादि तदिदमपवर्गाह्निके निराकरिष्यते ।
अतिरभसोज्जिहानेष्विति । अतिरभसेन साटोपनुपगच्छत्सु ।
25