________________
३४६
न्यायमञ्ज
[ चतुर्थम् इच्छामात्रेण पृथिव्यादेरियतः कार्यस्य करणमस्मदादीनां यन्मनोरथपदवीमपि नाधिरोहति तदपि यतः सम्पद्यते तस्य कियानयं प्रयासः ? तदत्रेश्वरसद्भावे परं विप्रतिपत्तयः ? तस्मिस्तु सिद्धे क एवं विकल्पानामवसरः ? उक्तञ्च तसिद्धौ निरपवादमनुमानम् । वयन्तु न कर्तार एव सम्बन्धस्य यत एवमनुयुज्येमहि
अगुल्यग्रेण निर्दिश्य कञ्चिदर्थं पुरः स्थितम् ।
व्युत्पादयन्तो दृश्यन्ते वालानस्मद्विधा अपि ॥ तस्माद् ईश्वरविरचितसम्बन्धाधिगमोपायभूतबृद्धव्यवहारलब्धतद्व्युत्पत्तिसापेक्षः शब्दोऽर्थमवगमयतीति सिद्धम् । न च नित्यसम्बन्धाभावेऽपि शब्दस्यार्थास्पशित्वं समयबलेनार्थप्रत्ययस्याबाधितस्य सिद्धरित्युक्तत्वाद् इत्यलं विस्तरेण ।
तस्मात् पदे च वाक्ये च सम्बन्धे च स्वतन्त्रता। पुरुषस्योपपन्नेति वेदानां तत्प्रणीतता ॥
आप्पोक्तत्वाद् वेदाः प्रमाणम् न स्वतः
तस्मादाप्तोक्तत्वादेव वेदाः प्रमाणं न नित्यत्वात् । नन्वाप्तोक्तत्वस्य हेतोः पक्षधर्मत्वं कथमवगम्यते ? न प्रत्यक्षेण क्षोणीधरधर्मत्वमिव धूमस्य वेदानामाप्त15 प्रणीतत्वमवगम्यते, श्रवणयुगलकरणलब्धजन्मनि प्रत्यये वेदाख्यस्य शब्दराशेरेव
प्रतिभासात् । न चोदात्तादिवद्वर्णधर्मत्वेन आप्तोक्तत्वं गृह्यते। नाप्यनुमानमस्मिन्नर्थे सम्भवति, लिङ्गाभावात्।प्रामाण्ये हि वेदस्याप्तोक्तत्वं लिङ्गम्, आप्तोक्तत्वानुमितौ तु न लिङ्गान्तरमुपलभामहे इति कुतस्त्यः पक्षधर्मत्वनिश्चयः ? उच्यते । अलं सरस्वतीक्षोदेन उक्त एव पक्षधर्मत्वनिश्चयोपायः, तथाहि
शब्दस्य साधितं तावदनित्यत्वं सविस्तरम् । रचनाः कर्तृमत्यश्च रचनात्वादिति स्थितम् ॥ कर्ता सर्वस्य सर्वज्ञः पुरुषोऽस्तीति साधितम् । कार्येणानुगुणं कल्प्यं निमित्तमिति च स्थितम् ॥
प्रत्यक्षादिविसंवादो वेदे परिहरिष्यते । 25
व्याघातपौनरुक्तयादिदोषश्च वचनान्तरे ॥