________________
प्रमाणप्रकरणम्
३४५
आह्निकम् ] पन्थाः, तत्रापि त्वयं विशेषो यत्तव शक्तिपर्यन्ता व्युत्पत्तिर्मम तु तद् वजमिति । तथा चेयमियती व्युत्पत्तिलॊके दृश्यते, यदयमस्य वाच्योऽयमस्य वाचक इति । न पुनः शक्तिपर्यन्ता व्युत्पत्तिरस्ति । तथा हि यत्र शृङ्गाग्राहिकया शब्दमर्थञ्च निर्दिश्य सम्बन्धः क्रियते तत्रेयन्तमेवैनं क्रियमाणं पश्यामः, अयमस्य वाच्योऽयमस्य वाचक इति । यत्रापि च वृद्धभ्यो व्यवहरमाणेभ्यो व्युत्पद्यते तत्रापीयदेवासौ जानाति 5 अयमर्थः अमुतः शब्दादनेन प्रतिपन्न इति । न त्वन्यास्य काचिच्छक्तिरस्तीति । इयत्यैव च व्युत्पत्त्या शब्दादर्थप्रत्ययोपपत्तरस्याश्च अपरिहार्यत्वादधिककल्पनाबीजाभावाच्च न नित्यः शब्दार्थसम्बन्धः । अत एव च 'सम्बन्धस्त्रिप्रमाणकः' इति यत्त्वयोच्यते तदस्माभिर्न मृष्यते। 'शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति' इति सत्यं 'श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया" इत्येतदपि सत्यम् । “अन्यथानुपपत्त्या 10 च वेत्तिक्ति द्वयाश्रिताम्" इत्येतत्तु न सत्यम्, अन्यथाप्युपपत्तेरित्युक्तत्वात् । तस्माद् द्विप्रमाणकः सम्बन्धनिश्चयो न त्रिप्रमाणकः । तदेवं शब्दस्य नैसगिकशक्त्यात्मक सम्बन्धाभावाद् ईश्वरविरचितसमयनिबन्धनः शब्दार्थव्यवहारो नानादिः।
नन्वीश्वरोऽपि सम्बन्धं कुर्वन् अवश्यं केनचिच्छब्देन करोति तस्य केन कृतः । सम्बन्धः ? शब्दान्तरेण चेत् तस्यापि केन कृतस्तस्यापि केनेति न कश्चिदवधिः तस्मादवश्यमनेन सम्बन्धं कुर्वता वृद्ध व्यवहारसिद्धाः केचिदकृतसम्बन्धा एव शब्दा अभ्युपगन्तव्या अस्ति चेद्, व्यवहारसिद्धिः । किमीश्वरेण किं वा तत्कृतेन समयेनेत्यनाद्यपक्ष एव श्रेयान् । उच्यते
अस्त्रमायुष्मता ज्ञातं विषयस्तु न लक्षितः। अस्मदादिषु दोषोऽयमीश्वरे तु न युज्यते ॥ नानाकर्मफलस्थानमिच्छयैवेदृशं जगत् । स्रष्टुं प्रभवतस्तस्य कौशलं को विकल्पयेत् ॥
तव शक्तिपर्यन्ता व्युत्पत्तिरिति । व्युत्पत्तिः शक्तिद्वयनियमलक्षणसम्बन्धावगम इति । यथोक्तम् – “अन्यथानुपपत्त्या च वेत्ति शक्ति द्वयाश्रिताम्" अन्यथाप्युपपत्ते- 25 रित्युक्तत्वादिति । 'अपमस्य वाचकः अयञ्च वाच्यः' इत्येतावन्मात्रव्युत्पताव युपपत्तेः ।