________________
न्यायमञ्जय
[ चतुर्थम्
भवद्भिः म्लेच्छप्रयोगादर्थनिश्चय आश्रित एव । अवेष्टयधिकरणे च राज्यशब्दमान्धसिद्धेऽर्थे वर्णितवन्तो भवन्त इत्यलमवान्तरचिन्तनेन । तस्मात् समय एव सम्बन्ध इति युक्तम् । तदुक्तं जातिविशेषे चानियमादिति ।
अथ यदुक्तं समयः प्रत्युच्चारणं प्रतिपुरुषश्च तत्करणम्, अनभ्युपगतमेव 5 दूषितम् । सर्गादौ सकृदेव समयकरणमिति नः पक्षः । अत एव न सर्वशब्दानां यदृच्छातुल्यत्वम् । केषाञ्चिदेव शब्दानामस्मदादिभिरद्यत्वे सङ्केतकरणात् त एव यदृच्छाशब्दा उच्यन्ते । सर्गादिश्व समर्थित एव, ईश्वर सिद्धावप्य विकल्पमनुमानमुपन्यस्तम् । एष एव चावयोविशेषो यदेष शब्दार्थसम्बन्धव्यवहारस्तवानादिर्मम तु जगत्सर्गात् प्रभृति प्रवृत्त इति । अद्यत्वे तु शब्दार्थ सम्बन्धव्युत्पत्तौ तुल्य एवावयाः 10 पिकः कोकिलः । नमोऽर्धम् । तामरसं पद्मम् । अवेष्टयधिकरणे चेति । अष्टौ यज्ञसंयोगात् क्रतुप्रधानमुच्यते" इत्यत्रावेष्टयधिकरणे । अत्र हीयं चिन्ता कृता । 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यत्र नानापशुसोमेष्टिसमुदायात्मकराजसूयाख्ययागमध्येऽवेष्टिर्नामेष्टिराम्नाता, "आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा ऐन्द्रमेकादशकपालमृषभो दक्षिणा, वैश्वदेवं चरु पिशङ्गी पठौही दक्षिणा, मैत्रावरुणीमामिक्षां वशा दक्षिणा, बार्हस्पत्यं चरु शितिपृष्ठो दक्षिणा" इति पञ्चेष्टसमुदायात्मिका, तामेतामवेष्टिमधिकृत्याह - एतयान्नाद्यकामं याजयेदिति । पुनश्च तामेवाधिकृत्य श्रूयते “यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहृतिमाहुति हुत्वाभिघारयेत्, यदि वैश्यो वैश्वदेवम्, यदि राजन्य ऐन्द्रम्" इति । तत्र संदेहः किं राज्यस्य कर्ता राजेति व्युत्पत्तिसमाश्रयणेन जनपदपुरपरिपालनरूपराज्यकर्तृत्वेन ब्राह्मणवैश्ययोरपि राजशब्दयोगसम्भवाद् राजसूयेऽधिकाराद् बार्हस्पत्यादिमध्यनिधानादिलक्षणस्य गुणस्य विधी ब्राह्मणत्वादिजातिनिमित्तत्वेनोपादानम्, आहोस्विद् आन्ध्रषु क्षत्रियजातौ राजशब्दप्रयोगात् तदाश्रयेण ब्राह्मणवैश्ययोरप्राप्तत्वात् 'एतयान्नाद्यकामं याजयेदिति विशिष्टफलकामयोस्तयोरपूर्वोपदेश इति । तत्र पूर्वपक्षः आर्यप्रसिद्ध्यनुग्रहात् राज्यकर्तरि राजशब्दप्रयोगसामर्थ्यनिमित्तार्थत्वेन ब्राह्मणाद्यपादानं समर्थितम्, सिद्धान्ते तु आन्ध्रप्रयोगाश्रयणेनाप्यार्य प्रसिद्धेर्बाधात् तत्समाश्रयणेन क्षत्रियजातावेव राजशब्दप्रयोग इति निश्चित्यापूर्व विधिरेवेति स्थापितम् । सूत्रार्थस्तु अष्टौ ब्राह्मणादिप्रतिपादनं क्रतुप्रधानमप्राप्तमेव तयोर्यज्ञकर्म विधातुम्, कुतः ? यज्ञसंयोगात्, राज्ञो हि क्षत्रियस्य राजसूयज्ञेन संयोगः सम्बन्धो न तयोः, अतोऽप्राप्तविधिरेवायं ब्राह्मणवैश्ययोरित्यर्थः ।
३४४
15
20
25