________________
३४३
आह्निकम् ]
प्रमाणप्रकरणम् व्यतिरेकस्तासां स्यात् । न च भिन्न कार्यानुमेया भिन्नाः शक्तयः, कार्यभेदस्यान्यथाप्युपपत्तेः । सर्वशक्तियोगे च सर्वार्थप्रत्ययप्रसङ्गः। समयोपयोगो नियामक इति चेत्, स एवास्तु कि शक्तिभिः ?
यदप्यगादि शब्दश्रवणे सति सर्वार्थविषयसन्देहदर्शनात् सर्वत्र तस्य शक्तिः कल्प्यते इति, तदप्यसारम् । न हि शक्तिकृतः सन्देहः, किन्तु गत्वादिवर्णसामान्यनिबन्धनः । तथा च गत्वादिजातिमतां वर्णानामर्थे वाचकत्वमवगतम्, अमी तज्जातियोगिलो वर्णाः कस्यार्थस्य वाचकाः स्युरिति भवति सन्देहः।।
यत्पुनरवादि स एव शब्दस्यार्थो यौनमार्याः प्रयुञ्जते न म्लेच्छजनप्रसिद्ध इति, तदेतत् कथमिव शपथमन्तरेण प्रतिपद्येमहि । न हि म्लेच्छदेशेऽपि तदर्थप्रत्ययो न जायते बाध्यते वा सन्दिग्धो वेति कथं न शब्दार्थः ? आर्यप्रसिद्धिर्बाधिकेति चेद, 10 आर्यप्रसिद्धरपि म्लेच्छ प्रसिद्धिः कथं न बाधिका ? अक्षादिवच्च विकल्पमानार्थोपपत्तेः व्यवस्थितविषय एव विकल्पो भविष्यति । पिकनेमतामरसादिशब्दानाञ्च
कार्यभेदस्यान्यथाप्युपपत्तेः समयभेदेनाप्युपपत्तेः ।
न च वाच्यं कथमेकस्य शब्दस्य नानार्थतेति, यतो दृष्टमेतदक्षादिषु शब्देषु; तदाह अक्षादिवदिति । यथा बिभीतकादित्रयवाचिनो अक्षशब्दस्य युगपत् त्रयवाचि- 15 त्वासम्भवात् विकल्पेन त्रयवाचित्वेऽपि प्रकरणादिवशात् क्वचिदेव व्यवस्थिते नियते विषये वृत्तिः । एवं देशान्तरे अन्यस्मिन्नन्यस्मिन् स्वार्थे प्रयुक्तानां शब्दानां विकल्पेनानेकार्थदाचित्वेऽपि देशवशान्नियतपदार्थे वृत्तिर्भविष्यति। ततश्च ‘यव'शब्दमार्या दीर्घशूकेषु प्रयुञ्जते, म्लेच्छास्तु प्रियङ्गुषु, तत् म्लेच्छप्रसिद्धि बाधित्वा दीर्घशूकेष्वयं यवशब्दः प्रयोक्तव्यो न प्रियङ्गुष्विति न वाच्यम्, उभयवाचकत्वेऽपि देशवशाद् व्यव- 20 स्थायाः सिन्दः । पिकनेमतामरसादिशब्दानामिति । पिकनेमाधिकरणे हि "चोदितं तु प्रतीयेताविरोवात् प्रमाणेन'' इत्यत्रैतच्चिन्तितम् । भवतु यवादिशब्दानामार्यप्रसिद्ध एवार्थः, ये तु पिकनेमतामरसादयः आर्यन क्वचित् प्रयुज्यन्ते तेषां किं म्लेच्छप्रसिद्ध एवार्थ उत माकरणादिव्युत्पत्तिसमाश्रयणेनार्थान्तरं कल्पनीयमिति। तत्राशिष्टाचारत्वाम्लेच्छ यवझारस्य वरं व्याकरणादिनवार्थकल्पनेति पूर्वपक्षयित्वोक्तम् “अशिष्टैरपि 25 यच्चोदितं शिष्टानवगत तदपि प्रतीयेत प्रत्येतव्यं प्रमाणेनाविरुद्धं सत् न चात्रम्लेच्छप्रसिद्ध्याश्रयणे कश्चित् प्रमाणविरोधः' इत्यर्थः “चोदितं तु प्रतीवेत' इति सूत्रस्य ।