________________
३४२
यत्तु नैसर्गिकेऽपि प्रकाशकत्वे शब्दस्य धूमादेरिव ज्ञापकत्वात् सम्बन्धग्रहणसापेक्षत्वमुक्तम् स एष विषम उपन्यासः । न हि धूमादेः प्रत्यायकत्वं स्वाभाविकम्, 5 अनलाविनाभावित्वन्तु तस्य निजं बलम्, तत्र चागृहीते तस्मिन् प्रतीतिरेव न जायते इति युक्तं तद्ग्रहणं प्रतीत्यर्थम् । इह तु प्रतीतिशक्तिरेव स्वाभाविकी भवताभ्युपगम्यते । सा चेत् स्वाभाविकी कि व्युत्पत्त्यपेक्षणेनेति । यच्चोच्यते प्रत्याह इति प्रत्ययं दृष्ट्वा अवगच्छामो न प्रथमश्रवण इति यावत्कृत्वः श्रुतेनेयं संज्ञा अयं संज्ञीत्यवगम्यते तावत्कृत्वः श्रुतादर्थावगम इति सोऽयं समयोपयोग एव कथितो भवति । 10 संज्ञासंज्ञिसम्बन्धो हि समय एवोच्यते, तदुपयोगमन्तरेण प्रत्यायकत्यानवगमान स्वाभाविक शक्तिः ।
न्यायमञ्जय
[ चतुर्थम्
पनतमेव न स्वाभाविकम् । सांसिद्धिके हि तथात्वे भ्रमित्वादिप्रयुक्तादन्यतो वा यतः कुतश्चिदभिनवादपि दीपादिव शब्दादर्थप्रतीतिः स्यात् ।
20
यदप्यभाणि समयमात्रशरणे सृणिप्रतोदनोदननिविशेषे शब्दे शब्दादर्थं 15 प्रतिपद्यामहे इति व्यपदेशो न स्यादिति, तदपि न किञ्चित् । नैसर्गिद शक्तिपक्षेऽपि शक्तेरर्थं प्रतिपद्यामहे न धूमादिति स्यात् । तदङ्गत्वादविनाभावादेर्न तथा व्यपदेश इति चेत् । तदितरत्रापि समानम् ।
25
यत्वभ्यधायि समयस्य ज्ञानात्मकत्वादात्मनि वृत्तिः न शब्दार्थयोरित्येतदप्यचतुरश्रम् । तदाश्रयत्वाभावेऽपि ज्ञानस्य तद्विषयत्वोपपत्तेः ।
धूमे हि व्याप्तिपूर्वत्वं शब्दे समय पूर्वता । नानयोस्तदपेक्षायां करणत्वं विहन्यते ॥
अपि च । लौकिको व्यपदेश: समयपक्षसाक्षितामिव भजते । देवदत्तेनोक्तम् अतः शब्दादमुमर्थं प्रतिपद्यस्वेति एवं हि व्यपदिशति लोकः । तस्मात् समय एव । अतश्चैवं देशान्तरे सङ्केतवशेन तत एव शब्दादर्थान्तरप्रतिपत्तिः ।
नन्वत्रोक्तं सर्वशब्दाः सर्वार्थप्रत्यायनयुक्ता इति केनचिदर्थेन क्वचिद्व्यवहार इति, तदेतदयुक्तम् । शक्तीनां भेदाभेदविकल्पानुपपत्तेः । न शब्दस्वरूपाद् भिन्नाः शक्तयः तथानवभासात् । अव्यतिरेके चैकस्माच्छन्दादनन्यत्वात् परस्परमयेदित्याशङ्कानिवारणायेदं शाबरं भाष्य " प्रत्यायक इति प्रत्ययं दृष्ट्वा " इति । सृणिरङ्कुशः ।