________________
आह्निकम् ]
हारः । अत एव चानवसम्बन्धे श्रुते सति सन्देहो भवति कमर्थं प्रत्याययितुमनेनायं शब्दः प्रयुक्तः स्यादिति । असत्यां हि शक्तौ अकृतसमये निरवलम्बना प्रत्यायकत्वाशङ्केति । अथ वार्यदेशप्रसिद्ध एव शब्दानामर्थः, इतरस्तु म्लेच्छज वसम्मतो नादरणीय एव । तस्मात् समयपक्षस्यातिदौर्बल्यादकृत्रिम एव शब्दार्थयोः सम्बन्ध इति न तत्र पुरुषस्य प्रभविष्णुता ।
प्रमाण प्रकरणम्
अत्रोच्यते । न नित्यः सम्बन्ध उपपद्यते, शब्दवदर्थवच्च तृतीयस्य तस्य प्रत्यक्षादिना प्रमाणेनाप्रतीयमानत्वात् ।
३४१
यत्क्तं समयस्य पुरुषेच्छाधीनत्वात् तस्याश्चाव्याहतप्रसरत्वाद् वाच्यवाचकव्यत्ययः स्यादिति तदयुक्तम् । शक्त्यभावे शब्दस्यैव वाचकत्वे योग्यत्वात् । का पुनः शक्त्यभावे योग्यतास्येति चेद्, योऽयं गत्वादिजातियोगः क्रमविशेषोपकृता गत्वत्वादिसामान्यसम्बन्धो हि यस्य भवति स वाचकत्वे योग्य इति । इतरस्तु वाच्यत्वे । यथा द्रव्यत्वाद्यविशेषेऽपि वीरणत्वादिसामान्यवताश्च पटनिष्पत्तौ न च तंत्र शक्तिरस्तीत्युक्तम् । न च कारणे कार्यं सदिति सांख्यैरिव भवद्भिरिष्यते । तस्यामसत्यामपि शक्तौ सामान्यविशेषसम्बन्धस्य नियामकत्वान्न वाच्यवाचकयोर्व्यत्यय इति न शक्तिरूपः शब्दार्थयोः सम्बन्धः । न च तयोरविनाभावे धूमाग्न्योरिव सम्बन्धः, तत्र हि सम्बन्धः प्रतीयमान एवं प्रतीयते धूमोऽग्नि विना न भवतीति । इह पुनरयमस्मात् प्रतीयते इति एतावदेव व्युत्पत्तिपर्यवसानम् । अत एवावगतिपूर्वि - कैवावगतिरित्यनुमानाच्छब्दस्य भेद उक्तः । प्रकाशकत्वमपि शब्दस्य समयप्रसादो
5
ननु शक्तिरूपः सम्बन्ध इत्युक्तः शक्तिश्च तदाश्रितेति कथं धर्म्यन्तरवत् पृथक्तया प्रतीयते ? नैतत् साम्प्रतम् । स्वरूपं सहकारिव्यतिरिक्तायाः शक्तेः सूक्ष्मायाः प्रागेव विस्तरतः प्रतिक्षिप्तत्वात् । न च शक्तिः प्रत्यक्षगम्या द्रव्यस्वरूपवदनुप- 10 लम्भात्, नानुमेया कार्याणामन्यथापि घटमानत्वात् । कल्पयित्वा च शक्तिमपरिहार्यः समयः, समयमन्तरेणार्थप्रतिपत्तेरसिद्धः । सिद्धे च समये तत एवार्थ सिद्धः fi frत्यसम्बन्धाश्रयणेन ?
15
2
एवं प्रतीयते 'धूमग्निविना न भवति' इति न पुनः 'धूमादग्निः प्रतीयते' 25 इत्येवम् । यदि प्रत्यायकत्वं शब्दस्य स्वाभाविकं तत् प्रथमश्रुत एव कस्मान्न प्रत्याय