________________
न्यायमञ्जयां
[चतुर्थम् प्रत्यक्षसामग्रयन्तर्गतत्वान्न व्युत्पत्त्यपेक्षा भवन्ति, शक्तिस्तु नैसगिकी यथा रूपप्रकाशिनी दीपादेस्तथा शब्दस्यार्थप्रतिपादने, तस्मान न समयमात्रादर्थप्रतिपत्तिः ।
अपि चाभिधानाभिधेयनियमनियोगरूपः समयो ज्ञानमेव न ततोऽर्थान्तरम् । ज्ञानञ्चात्मनि वर्तते न च शब्दार्थयोरिति न तयोः सम्बन्धः स्यात् । किञ्च समयः क्रियमाणः प्रत्युच्चारणं वा क्रियते प्रतिपुरुषम्, सर्गादौ वा सकृदीश्वरेणेति । प्रत्युच्चारणं प्राक्तन एव क्रियते नतनो वा। नवस्य तावत क्रियमाणस्य कथमर्थप्रत्यायनसामर्थ्यमवगम्यते । तदवगतौ वा किं तत्करणेन । पूर्वकृतस्य तदा कृतत्वादेव पुनः करणमनुपपन्नम् । एकस्य वस्तुनो ज्ञप्तिरसकृदावर्तते नोत्पत्तिः । प्रतिपुरुषमपि
सम्बन्धो भिन्नोऽभिन्नो वा क्रियते। भेदपक्षे कथमेकार्थसञ्ज्ञानं गोशब्दस्य सास्नादि१० मानर्थः केसरादिमानश्वशब्दस्येति । अभेदेऽपि तथैव कृतस्य करणायोगाज ज्ञान
मेव सम्बन्धस्य न करणम् । सर्गादावपि सकृत् सम्बन्धकरणमयुक्तं तथाविधकालासम्भवादेव । न हि शब्दार्थव्यवहाररहितः कश्चित् काल उपपद्यते । तस्मान्नित्यस्यैव सम्बन्धस्य लोकतो व्युत्पत्तिः न पुनः करणम् । व्युत्पत्तिपक्षञ्च न करणपक्षाभिहिता
दोषाः स्पृशन्ति प्रत्यक्षसिद्धत्वात् । प्रत्यक्षं हीदमुपलभ्यते वृद्धानां हि स्वार्थे व्यव15 हरमाणानामुपशृण्वन्तो बालास्ततस्ततः शब्दात्तं तमर्थं प्रतियन्ति । तेऽपि वृद्धा यदा
बाला आसंस्तदान्येभ्यो वृद्धभ्यस्तथैव प्रतिपन्नवन्तस्तेऽप्यन्येभ्य इति नास्त्यादिः संसारस्येति।
___ अपि च समयमात्रशरणः शक्तिशून्यः शब्दः कथमक्षिनिकोचहस्तसंज्ञादिभ्यो भिद्यत? स हि तदानीं कशाङकुशप्रतोदाभिघातस्थानीय एव भवेत्, तथा च शब्दादर्थ 20 प्रतिपद्यामहे इति लौकिको व्यपदेशो बाध्येत समयादर्थ प्रतिपद्यामहे इति स्यात् ।
समयपक्षे च यदृच्छाशब्दतुल्यत्वं सर्वशब्दानां प्राप्नोति, तेन गवाश्वादीनां शब्दानां नियतविषयत्वं न स्यात् ।
यत् पुनरुच्यते जातिविशेषे चानियमात् समयरूपः सम्बन्ध इति, जातिशब्देनात्र देशो विवक्षितः। किल क्वचिद्देशविशेषे कश्चिच्छब्दो देशान्तरप्राप्तप्रसिद्धमर्थ25 मुत्सृज्य ततोऽर्थान्तरे वर्तते । यथा चौरशब्दस्तस्करवचन ओदने दाक्षिणात्यः प्रयु
ज्यते, एतच्च समयपक्षे युज्यते, नित्ये तु सम्बन्धे कथं तदर्थव्यभिचार इति, तदप्ययुक्तम् । सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् क्वचिद्देशे केनचिदर्थेन व्यव