________________
आह्निकम् ]
प्रमाणप्रकरणम् उच्यते । न संश्लेषलक्षणः शब्दार्थसम्बन्धोऽस्माभिरभ्युपगम्यते । तत् कि कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावादयः शब्दस्यार्थेन सम्बन्धाः । एतेऽपि नराम् । न हि तस्य कश्चिदर्थेन सम्बन्धः ? न नास्ति शब्दस्यार्थेन सम्बन्धः, प्रत्ययनियमहेतुत्वाद धूमादिवत् । तत् कि शब्दार्थयोरविनाभावः सम्बन्धः ? सोऽपि नास्ति एवं हि शब्दोऽनुमानमेव स्यात् । कस्तहि समय इति ब्रूमः। कोऽयं समयो 5 नाम, अभिधानाभिधेयनियमनियोगः समय उच्यते । यद्येवं किमनाशङ्कनीयसंश्लेषपरिचोदनेन तदूधणेन च ? उच्यते । शब्दार्थाभेदवादिनां हि वैयाकरणानामेष संश्लेषः, उपपत्तिमान समयोऽप्ययमनुपपन्न एव, स हि पुरुषकृत सङ्केतो न च पुरुषेच्छया वस्तुनियमोऽवकल्पते तदिच्छाया अव्याहतप्रसरत्वात् । अर्थोऽपि किमिति वाचको न भवति, न चैवमस्ति न हि दहनमनिच्छन्नपि पुरुषो धूमान्न तं प्रत्येति । जलं वा तत इच्छन्नपि प्रतिपद्यते, तत्र यथा धूमाग्न्यौ.सगिक एवाविनाभावो नाम सम्बन्धः ज्ञप्तये तु भूयोदर्शनादि निमित्तमाश्रीयते एवं शब्दार्थयोःसांसिद्धिक एव शक्त्यात्मा सम्बन्धः, तव्युत्पत्तये तु वृद्धव्यवहारप्रसिद्धिसमाश्रयणम् । स्वाभाविके सम्बन्धे सति दीपादिवत् किं तद्व्युत्पत्त्यपेक्षणेनेति चेद्, न, शब्दस्य ज्ञापकत्वात्, ज्ञापकस्य धूमादेरेतद्रूपं यत् सम्बन्धग्रहणापेक्षं स्वज्ञाप्यज्ञापकत्वम्, उद्दयोतादयस्तु 15
तत्कि कार्यकारणेति । कार्यकारणलक्षणः सम्बन्धो बीजाकुरयोरिव, निमित्तनैमितिकलक्षणः कुविन्दपटयोरिव, आश्रयाश्रयिभावलक्षणस्तु कुण्डबदरयोरिव । आदिग्रहणात् कार्योत्पादेऽयनिवृत्तः कारणविशेषयोनिस्तत्कृतः सम्बन्धः पितापुत्रयोरिव । प्रत्ययनियमहेतुत्वादिति । विशिष्टार्थविषयप्रत्ययस्तेनासम्बन्धान्नोपपद्यत इति भावः।
नियोगेति । व्यवस्थया नियोगो नियोजनम् ।
शब्दार्थाभदवादिनां होति । शब्द उच्चरिते शब्दाकारतया प्रथमं बुद्धिर्विवर्तते, सा तथा वित्ता सती ततोऽर्थाकारतया विपरिणमते, तस्याञ्च तथाभूतायां बुद्धौ शब्दस्वरूपमेवार्थाकारतया निवृत्तमवगम्यत इत्यादि युक्त्युपन्यासपूर्वकं शब्दार्थयोरभेदमाहुः शाब्दाः । संश्लेष इति । संश्लेषरूपसम्बन्ध इति, प्रागुक्तनीत्या शब्दसंसृष्टस्यैवार्थस्यावगमात् । सांसिद्धिक एवेति । स्वाभाविक एव शक्तिद्वयनियमलक्षणसम्बन्ध 25 इत्यर्थः । उद्योतादयः प्रदीपादयः।