SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३३८ न्यायमञ्जां [ चतुर्थम् शाखा भवन्ति न च कृत्स्नं पुष्पफलपत्रमेकस्यां शाखायां सन्निहितं भवति किन्तु कस्याञ्चित् कस्याञ्चित्, एवं वेदस्यापि शाखाः पृथगङ्गकर्मोपदेशिन्यो विक्षिप्ताश्च । तासाञ्च वृक्षशाखानामेकस्माज्जन्म बीजतः । तथैव सर्वशाखानामेकस्मात् पुरुषोत्तमात् ॥ कर्ता य एव जगतामखिलात्मवृत्तिकर्मप्रपञ्चपरिपाकविचित्रताज्ञः । विश्वात्मना तदुपदेशपराः प्रणीतास्तेनैव वेदरचना इति युक्तमेतत् ॥ आप्तं तमेव भगवन्तमनादिमीशमाश्रित्य विश्वसिति वेदवचःसु लोकः । तेषामकर्तृकतया न हि कश्चिदेवं विस्रम्भमेति मतिमानिति वर्णितं प्राक् ॥ एवञ्च पदवाक्यरचनादौ तावद् वेदेषु पुरुषापेक्षित्वमुपपादितम् । 15 शब्दार्थयोः सम्बन्धस्वरूपविचारः ___ यदपि सम्बन्धकरणे पुरुषानपेक्षत्वमुच्यते चित्रभानोरिव दहनशक्तिः शब्दस्य नैसर्गिको वाचकशक्तिः । व्युत्पत्तिस्तु वृद्धभ्य एव व्यवहरमाणेभ्य उपलभ्यते इति किमत्र पुरुषः करिष्यतीति ? तदप्यघटमानम्, पुरुषपरिघटितसमयसम्बन्धव्यतिरेकेण शब्दादर्थप्रत्ययानुत्पत्तेः। ननु नैव शब्दस्यार्थेन सम्बन्धः कश्चिदस्ति, कस्येदं पुरुषसापेक्षत्वं तन्निरपेक्षत्वं वा चिन्त्यते ? न हि शब्दार्थयोः कुण्डबदरयोरिव संयोगस्वभावः तन्तुपटयोरिव समवायात्मा वा सम्बन्धः प्रत्यक्षमुपलभ्यते, तन्मूलत्वाच्च सम्बन्धान्तराण्यपि न सन्ति । तदुक्तं मुखे शब्दमुपलभामहे भूमावर्थमिति । नाप्यनुमीयते शब्दस्यार्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणानुपलम्भात् । न च शब्ददेशे अर्थः सम्भवति न चार्थदेशे शब्दः स्थानकरणप्रयत्नानां तद्धेतूनां घटाद्यर्थदेशेऽनुपलम्भात् । व्यापकत्वन्तु शब्दस्य प्रतिषिद्धमेव ।
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy