________________
प्रमाणप्रकरणम्
आह्निकम् ] भिरङ्गरन्वितं प्रयुज्यते । तत्र हि हौत्रमृग्वेदेन यजुर्वेदेनाध्यर्यवम् , औद्गानं सामवेदेन ब्रह्मत्वमथर्ववेदेन क्रियते। पप्पलादादिशाखाभेदोपदिष्टञ्च तत्तदङ्गजातं तत्र तत्रापेक्ष्यते । तत्र सर्वशाखाप्रत्ययमेकं कर्मेत्याहुः । एतच्चादूरएवाग्रे निर्णेष्यते ।
एकाभिप्रायबद्धत्वं तेन सर्वत्र गम्यते।
भवेद् भिन्नाशयानां हि कथमेकार्थमीलनम् ॥ काव्यसमस्यापूरणे का वार्तेति चेत् ?
तत्रापि प्रथमस्यैव कवेस्तद्वस्तुदर्शनात् । तदभिप्रायवेदी तु सोऽन्यस्तमनुवर्तते ॥ अन्यथानन्वितं काव्यं स्याद् विश्ववसुकाव्यवत् । अन्वितत्वे तु सा नूनमाद्यस्यैव कवेर्मतिः ॥ इहाप्येकाशयाभिज्ञद्वितीयेश्वरकल्पने।
एकाभिप्रायतैव स्यात् किं स्यात्तत्कल्पने फलम् ॥ तस्मादेक एव कर्ता सर्वशाखानाम, काठकादिव्यपदेशस्तु प्रकृष्टाध्ययननिबन्धनो भविष्यतीति भवद्भिरप्युक्तम्। अपि च यथा तरोविक्षिप्ताः
होत्रं होतृकर्म याज्यानुवाक्यापाठादि । आध्वर्यवमध्वर्युकर्म पुरोडाशादिकरणं 15 होमश्च । औद्गात्र सुद्गातृकर्म स्तोत्रादिपाठः । सर्वशाखाप्रत्ययमिति । सर्वशाखाधीनः प्रत्ययः प्रतीतिर्यस्य । न ह्येकस्यां शाखायां निरपेक्षं कर्म प्रतीयते।
काव्यसमस्यापूरण इति । यत्रैकः पादः कविना रच्यते द्वौ वा शिष्टमन्यैः पूर्यते सा काव्यसमस्या। यथा 'समुद्राद् वह्निरुत्थितः' इति 'सीतासमागमासह्यादाकर्णाकृष्टधन्वनः । राघवस्य शराङ्गारैः' इति पादत्रयेण पूरयन्ति ।
विश्ववसुकाव्यम् “जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मत्तकानि' इत्यादिकम् । प्रसिद्धपदार्थापेक्षयानन्वितार्थमिति वर्णयन्ति, मीमांसकभाष्यकृतास्यैवानन्वितार्थोदाहरणत्वेन प्रदर्शनात् ।
प्रकृष्टाध्ययननिबन्धनो भविष्यतीति । कठेनासाधारण्येनैवैषा शाखा प्रोक्ता शिष्येभ्यो निगदिता। भवद्भिरप्युक्तम् । 'वेदांश्चैके सन्निकर्षम् पुरुषाख्या' इति पूर्व- 25 पक्षयित्वा 'आख्या प्रवचनात्' इति सिद्धान्तयद्भिः ।
20
४३