________________
न्यायमञ्जयां
[ चतुर्थम् जगत्स्रष्टुरेकत्वमेव
जगत्सर्गे तावदेक एवेश्वर इष्यते न द्वौ बहवो वा, भिन्नाशयकल्पने एकत्र वैयर्थ्याद्, इतरत्र व्यवहारवेशसप्रसङ्गन तत एकस्येश्वरत्वविधानात् । तथा हि
अनेकेश्वरवादो हि नातीव हृदयङ्गमः। ते चेत् सदृशसङ्कल्पाः कोऽर्थों बहुभिरीश्वरैः॥ सङ्कल्पयति यदेकः शुभमशुभं वापि सत्यसङ्कल्पः। तत् सिद्धयति तद्विभवादित्यपरस्तत्र किं कुर्यात् ॥ भिन्नाभिप्रायतायान्तु कार्यविप्रतिषेधतः । नूनमेकः स्वसङ्कल्पविहत्यानीश्वरो भवेत् ॥ एकस्य किल सङ्कल्पो राजायं क्रियतामिति । हन्यतामिति चान्यस्य तौ समाविशतः कथम् ॥ राज्यसङ्कल्पसाफल्ये विहता वधकामना । तस्याः सफलतायां वा राज्यसङ्कल्पविप्लवः ॥ तेन चित्रजगत्कार्यसंवाहानुगुणाशयः । एक एवेश्वरः स्रष्टा जगतामिति साधितम् ॥
वेदकर्तुरपि नानात्वे प्रमाणाभावः
एवं जगत्सर्गवत् स एव वेदानामप्येकः प्रणेता भवितुमर्हति, नानात्वकल्पनायां प्रमाणाभावात् कल्पनागौरवप्रसङ्गाच्च। तेन यदुच्यते
नन्वेकः सर्वशाखानां कर्त्तत्यवगतं कुतः।
बहवो बहभिर्ग्रन्थाः कथं न रचिता इमे ॥ इति तत्परिहृतं भवति । अतश्चैककर्तृका वेदा यतः परस्परव्यतिषक्तार्थोपदेशिनो दृश्यन्ते । एकमेव हि कर्म वेदचतुष्टयोपदिष्टः पृथग्भूतैरप्येकार्थसमवायि
चित्रजगत्कायति । चित्रं जगल्लक्षणं यत् कार्यं तद् यैर्गुणैः समाहर्तुं शक्यते 2 सर्वज्ञतादिभिस्तेषामाशयः स्थानम् ।