________________
आह्निकम् ]
प्रमाण प्रकरणम्
यथा परकृताशङ्का तस्मिन् काव्ये व्यपेति ते । desकृताशङ्का तथा तेषां व्यपैष्यति ॥ परोक्षमनुमानेन यच्च बुद्धयामहे वयम् । प्रत्यक्षं योगिनां तच्चेत्युक्तं प्रत्यक्षलक्षणे ॥ प्रत्यक्षमनुमानश्च तदेवं कर्तृतामितौ । मूलप्रमाणमस्तीति स्मृतौ निन्दापरम्परा ॥ मन्त्रार्थवादमूलत्वं तत एव न तत्स्मृतेः । यथोदितानुमानादिप्रमाणान्तरसम्भवात् ॥
उच्यते तर्हि सर्वज्ञः स्रष्टुं प्रभवतीदृशम् । विचित्रं प्राणिभृत्कर्मफलभोगाश्रयं जगत् ॥ तत्कर्मफल सम्बन्धविदा तदुपदेशिना । तेनैव वेदा रचिता इति नान्यस्य कल्पना ॥ एकेनैव च सिद्धेऽर्थे द्वितीयं कल्पयेम किम् । अनेक कल्पनाबीजं न हि किञ्चन विद्यते ॥
10
यदपीतरेतराश्रयमभाषि पुरुषोक्ते वेदे प्रामाण्यं वेदप्रामाण्यात् पुरुषसिद्धिरिति, तदपि न सम्यक् पूर्वं परिहृतत्वात् । अनुमानात् प्रसिद्धे कर्त्तरि वेदवाक्यै - स्तत्प्रतीतेरुपोद्बलन मिष्यते, न त्वागमैकशरण एव कर्त्रवगमः । उक्तश्च पूर्वमपि पृथिव्यादिना कार्येण कर्तुरनुमानम् ।
वेदकर्तुरेव पृथिव्यादिरचयितृत्वम्
किं येनैव कर्त्रा पृथिव्यादि कार्यं निर्मितं तेनैव वैदिक्यो रचना निर्मिता इति चेद् ? ओमित्युच्यते । किमत्र प्रमाणमिति चेत् ?
मन्त्रार्थवादमूलत्वमिति । 'विश्वतश्चक्षुरित्या 'देर्मन्त्रार्थवादादन्यथा गृहीतादीश्वरसत्तां गृहीत्वा स्मरन्तीति ।
३३५
उपोद्बलन मिष्यत इति । उद्गतं बलमुद्बलमधिकमुद्बलमुपोद्बलं तस्य करणम् उपोद्बलनं तेन ।
5
15
20
25