________________
न्यायमञ्जय
[ चतुर्थम् करस्मरणे सति सुतरां वेदार्थानुष्ठानं प्रेक्षावतां शिथिलीभवेत्, न ह्यकर्तृक एवोपदेशः सम्भवति, सम्भवन्नपि वा प्रामाण्यनिश्चयनिमित्ताभावात् कथं विस्रम्भभूमिरौ भवेत् ? बाधकाभावमात्राच्च न प्रामाण्यनिश्चयो वचसामित्युक्तं प्राक् । तस्माद् आप्तप्रत्ययादेव निर्विचिकित्सं वेदार्थानुष्ठानं सप्रतिष्ठानां सम्भवति 5 नान्यथेति । तस्मान्न कर्त्रस्मरणस्य रचनात्वप्रतिपक्षतयोपन्यास उपपन्नः ।
३३४
नापि स्वतन्त्रमेवेदं कर्त्र भावसाधनं भवितुमर्हति अनुपलब्धिरियमनेन प्रकारेण किलोच्यते सानुपपन्ना, मानेन कर्तुरुपलम्भात्, अनुमानेनापि यदुपलब्धं तदुपलब्धमेव भवति । ननु कर्त्र भावस्मरणबाधितत्वादनुमानमिदमयुक्तम् । इतरेतराश्रयप्रसङ्गात् । अनुपलब्धौ सिद्धायामनुमाननिरासः, अनुमाननिरासे च 10 सत्यनुपलब्धिसिद्धिः । अनुमानप्रामाण्येऽपि समानो दोष इति चेद्, न तस्य प्रतिबन्धमहिम्ना प्रामाण्यसिद्धेः । न हि तस्यानुपलब्धिसिद्धिनिरासापेक्षं प्रामाण्यम् ।
तत्रैतत् स्याद् । न वयं कर्त्रभावे प्रामाण्यं ब्रूमः । सकललोकपदार्थव्यवहारिणो हि मीमांसकाः । परन्तु वेदस्य पौरुषेयतां ब्रुवाणं प्रमाणं पृच्छामः । तच्चास्य नास्तीति बलादनुपलब्ध्या तदभावनिश्चयो व्यवतिष्ठते इति । स्यादेतदेवं यद्यनुमानं न स्यात् उक्तश्च रचनात्वादित्यनुमानम् ।
15
20
25
यत् पुनरवादि वेदेषु पुरुषस्य कर्तृत्वमशवयं ग्रहीतुमिति, तदप्यसाधु । परोक्षस्य कुविन्दादेरपि अभिनवावरकपटादौ कार्ये कथं कर्तृतावगम्यते ।
पटादिरचनां दृष्ट्वा तस्य चेत् सानुमीयते ।
वेदेऽपि रचनां दृष्ट्वा कर्तृत्वं तस्य गम्यताम् ॥
शरीरपरिग्रहमन्तरेण प्राणिनामुपदेशस्य कर्तुमशक्यत्वात् कदाचिदीश्वरः शरीरमपि गृह्णीयादिति कल्प्यते । नियतशरीरपरिग्रहाभावाच्च व्यासादिवदसौ न
स्मर्यते । ततश्च
अद्य सद्यः कविः काव्ये यथा कर्त्तेति मीयते ।
तथा तत्कालजैः पुम्भिः सोऽपि कर्तेति मास्यते ॥
अनुपलब्धिरियमनेनेति । न चेत् स्मर्यंते नास्ति तस्योपलब्धिः, अतोऽनुपलब्धेर
भावस्तस्य ॥