________________
प्रमाणप्रकरणम्
आह्निकम् ] इति । प्रतिसर्ग पुनस्तेषां भावादनादित्वमिति चेत्, प्रतिसर्ग तहि वेदान्यत्वमपि भविष्यति । यथोक्तम् "प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते' इति
रूपादकृत्रिमत्वञ्च कल्पनाकल्पितैव सा ।
आदिमद् वस्तुबुद्धिस्तु वाचकैरक्षरैः स्फुटः॥ तेषामन्यथा व्याख्यानन्तु व्याख्यानमेव । पठन्त एव त्वध्येतारस्तत आदि- 5 मतोऽर्थान् बहूनवगच्छन्तीति नानादिर्वेदः । तस्मान्न रचनात्वमप्रयोजकम् ।
कञस्मरणमेव स्वप्रयोजकमसिद्धत्वात् । सिद्धमपि वा वेदे कञस्मरणमन्यथासिद्धम्, वेदकरणकालस्यातिदवीयस्त्वात् । तत्प्रणेतुश्च पुंसः सकलपुरुषविलक्षणत्वानियतशरीरपरिग्रहाभावाद् इदन्तयास्य पाणिनिपिङ्गलादिवत् स्मरणं नास्ति, न तु स नास्त्येव, अनुमानागमाभ्यां तदवगमात् । कथं पक्षधर्मतया ग्रहीतुं शक्यते 10 कञस्मरणम्, तद्धयेतत्पुरुषसम्बन्धि व्यभिचरति सर्वपुरुषसम्बन्धि तु दुरवगमम्, सर्वे पुमांसः कर्तारं वेदस्य न स्मरन्तीति कथं जानाति भवान् ? न हि तव सकललोकहृदयानि प्रत्यक्षाणि, सर्वज्ञत्वप्रसङ्गात् । न च यत् त्वं न जानासि तदन्योऽपि न जानातीति युक्तम्, अतिप्रसङ्गात् । तस्मादस्मर्यमाणकर्तृकत्वं दुर्बोधमेव । अपि च
20
उर्वशीवियोगे कृतमरणाध्यवसायं विहितप्रपातपातस्थं निश्चितहिंस्रप्राणिशरीर- 15 प्रदानं राजानं पुरूरवसं मुनिनिषेधति हे पुरूरवः मा मृथाः प्राणान् मा त्याक्षीः, मा च प्रपप्त प्रपातपातं मा च कृथाः, मा च पतितं सन्तं त्वां वृका हिंस्रा: प्राणिनः अशिवा भीषणाः क्षन् वधिषुः, यतः स्त्रीकृते भवतैतत् सर्वं क्रियते न च तासां स्त्रीणां सम्बन्धीनि सख्यानि प्रीतयः सन्ति । न स्थिरस्नेहा योषित इत्यर्थः। सालावृकाणां मर्कटानां हृदयं चित्तमिव चला ह्येता इति । प्रपत्त इति सिबू-अङि 'पतः पुम्” इति पुमागमे च रूपम् , ' उ इत्यनर्थको निपातः; क्षन्निति हन्तेर्घश्लादेशे लुडिच्छान्दसं रूपम् । एवं चादिमतः पूर्वमनुष्ठितस्यार्थस्याभिधानाद् वेदस्याप्यादिमत्त्वम्, असत्यर्थे तदभिधानासम्भवात्, एवंविधार्थपाभावित्वं वेदस्येति ।
तेषामन्यथा व्याख्यानं त्विति । तथा च प्रावाहणिरित्यस्य व्याख्यान्तरं कृतम्। प्रवहतीति प्रावाहणिर्वायुरुच्यते स च नित्य एवेति । तदुक्तम् “परं तु श्रुतिसामान्य- 25 मात्रम्" इति।