________________
३३२
न्यायमञ्जयां
[चतुर्थम् वेदा न पठिता यैस्तु त्वादशैः कुण्ठबुद्धिभिः ।
कार्यत्वं ब्रुवते तेऽस्य रचनासाम्यमोहिताः ॥ उच्यते । मीमांसका यशः पिबन्तु पयो वा पिबन्तु बुद्धिजाड्यापनयनाय ब्राह्मोघृतं वा पिबन्तु वेदस्तु पुरुषप्रणीत एव नात्र भ्रान्तिः ।
यथा घटादिसंस्थानाद् भिन्नमप्यचलादिषु ।
संस्थानं कर्तृ मत् सिद्धं वेदेऽपि रचना तथा ॥ यच्चात्र किञ्चिद् वक्तव्यं तत्पूर्वमेव सविस्तरमुक्तम् । अपि च यद् विलक्षणेयं रचना तद्विलक्षण एव कर्तानुमीयतां न पुनस्तदपलापो युक्त इत्यप्युक्तम् ।
याश्चैता निर्विवादसिद्धकर्तृकाः कालिदासादिरचनाः चमत्कारिण्य स्तासामन्योन्य10 विसदृशं रूपमुपलभ्यत एव ।
अमृतेनेव संसिक्ताश्चन्दनेनेव चचिताः ।
चन्द्रांशुभिरिवोद्धृष्टाः कालिदासस्य सूक्तयः ॥ प्रकटरसानुगुणविकटाक्षररचनाचमत्कारितसकलकविकुला बाणस्य वाचः, ' प्रतिकाव्यञ्च तानि तानि वैचित्र्याणि दृश्यन्ते एव । नामाख्यातादिवैचित्र्यभात्रेण 15 कञभावो वेदे रूपादेव प्रतीयते इति नूतनेयं वाचोयुक्तिः । अपि च यदि रूपे
समाश्वसिति भवतो मनः तदादिमद् अर्थाभिधानमपि वेदस्य रूपं कथं न परीक्षसे ? 'बबरः प्रावाहणिरकामयत' 'कुसुरविन्दः औद्दालकिः अकामयत, 'पुरूरवो मा मृथा'
सापेक्षत्वेन विक्षिप्तो योऽर्थः । तथाहि सामवेदे 'एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमः' इति ज्योतिष्टोमस्य प्राथम्यविधायक वाक्यम् । न च तत्र ज्योतिष्टोमो विहितोऽस्ति, अतः शाखान्तरविहितसापेक्षता।
बबरः प्रावाहणिरकामयतेति पशुमान् स्यामिति । स एतामिष्टिमपश्यत् स तां निरवपत् स पशून् प्रत्यपद्यतेत्यादि वाक्यशेषो 'बबरः प्रावाहगिरकामयत' इत्यस्य। शाखान्तरप्रसिद्ध इत्याहुः। प्रवाहणस्य राज्ञोऽपत्यं प्रावाणिः। उद्दालकस्यर्षेरपत्यमौद्दालकिः । पुरूरवो मा मृथा इति ।
पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता । इति