________________
३३१
आह्निकम् ]
प्रमाणप्रकरणम् अलमुपहासेन, रचनामात्रमेव तुल्यं वेदस्य कुमारसम्भवेन नान्यत्। न चेयतोपहसितुं युक्तम् । किमस्य शब्दत्वं सामान्यं शङ्खशब्दसाधारणं नास्ति, सत्तासामान्यं वा सर्वसाधारणमिति ।
ननु याः कालिदासादिरचनाः कर्तृपूविकाः। ताभ्यो विलक्षणैवेयं रचना भाति वैदिकी ॥ इहाध्ययनवेलायां रूपादेव प्रतीयते । अकृत्रिमत्वं वेदस्य भेदैस्तैस्तैरनन्यगैः॥ नामाख्यातोपसर्गादिप्रयोगगतयो नवाः । स्तुतिनिन्दापुराकल्पपरकृत्यादिनीतयः ॥ शाखान्तरोक्तसापेक्षविक्षिप्तार्थोपवर्णनम् । इत्यादयो न दृश्यन्ते लौकिके सन्निबन्धने ॥ तेनाध्येतृगणाः सर्वे रूपाद् वेदमकृत्रिमम् । मन्यन्ते एव लोके तु पीतं मीमांसकैर्यशः ॥
नामाख्यातेति । नाम्नामभिनवत्वं सूचयति कृतणत्वस्याग्निशब्दस्य ववचित् प्रयोगः। आख्यातस्याभिनवत्वं होता यजतु' इत्यत्रार्थे ‘होतः यक्षत्' इति प्रयोगे। 15 उपसर्गस्य 'सं ते वायुर्वातेन गच्छताम्' इत्यादौ व्यवहितस्य प्रयोगः। स्तुतिः प्रशंसा यथा-'सर्वजिता वै देवाः समयजन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति' इत्यादि । अनिष्टफलवादो निन्दा। ‘स एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽन्येन यजते स गर्ने पतत्ययमेवैतज्जीयते वा प्रमीयते वा' इत्यादि । अन्यकतृ कस्य व्याहतस्य विधेर्वादः परकृतिः। “हुत्वा वपामेवाग्रेऽभिधारयन्ति अथ 20 पृषदाज्यं तदु ह कठचरकाध्वर्यवः पृषदाज्यमेवाग्रेऽभिघारयन्ति प्राणा वै पृषदाज्यमिति वदन्तः” इत्यादि । ऐतिह्यसमाचरितो विधिः पुराकल्पः। 'तस्माद्वा एतेन पुरा ब्राह्मणा बहिष्पवमानं सामस्तोममस्तौषन् योने यज्ञं प्रतनवामहे” इत्यादि न्यायभाष्योक्तानि स्तुत्यायुदाहरणानि। विशिष्टनामधेयकतृ सम्ब धनिर्वय॑कर्मप्रतिपादकसामान्यकतृ मात्रनिवर्त्यकर्मप्रतिपादकयोरर्थद्वारेण वाक्ययोस्तु मीमांसकाः परकृतिपुराकल्पता- 5 माहुः। आदिग्रहणमनुवादादिपरिग्रहार्थम् । शाखान्तरोक्तिसापेक्षेति । शाखान्तरोक्ति