________________
३३०
न्यायाजा
[ चतुर्थम
वेदपौरुषेयत्वसिद्धौ युक्तिः ___अत्रोच्यते, अपि तद्गुर्वध्ययनपूर्वकत्वं साधनमुपेक्षितं याज्ञिकः, अयमभिनवो हेतुरस्मर्यमाणकर्तृकत्वादिति प्रयुक्तः । तस्मादस्तु नाम । नैनान हेत्वन्तरोपन्यासिनो
निगृहीमः । अक्षुद्रकथेयं प्रस्तुता । अयमपि तु अस्मीमाणकर्तृकत्वादिति हेतुः किं 5 स्वतन्त्र एवाकर्तृकत्वसिद्धये प्रयोज्यते उतास्मदुपचरितरचनात्वप्रतिघातायेति ? तत्र
न तावदनुमानमनुमानान्तरपरिपन्धि कस्तुमुदितम्, प्रत्यक्षागामवदनुमानस्याप्यनुमानबाधकत्वानुपपत्तेः । नहि तुल्यालयोरनुमानयोर्बाध्यबाधकभावस्तुल्यबलत्वादेव । अतुल्यबलत्वे तु यत्कृतमन्यतरस्य दौर्बल्यं तत एद तदप्रामाण्यसिद्धः किमनु
मानबाधया? तद्विडम्बनार्थं तदभिधानमिति चेत्, तदप्ययुक्तम् । एकत्र मिणि 10 युगपदितरेतरविरोधिधर्मदृयप्रयोजकहेतुद्वयोपनिपातायोगात् । न हि द्वयात्मकानि
वस्तूनि भवितुमर्हन्ति इत्यवश्यगन्यतरस्तत्राप्रयोजकहेतुः, अप्रयोजकत्वादेव तस्यागमकत्वे कि विडम्बनार्थेन हेत्वन्तरेण प्रयुत्तोग। विरुद्धाव्यभिचार्यपि नाम न कश्चिद्धत्वाभास इति वक्षाामः, प्रकरणसमोऽपि न यः कश्चित् सत्त्रतिपक्षो हेतु
रिष्यतेऽपि तु संशयबीजभूतोऽन्यतरविशेषानुपला नात्या हेतुत्वेन प्रयुज्यमान15 स्तथोच्यते इति दर्शयिष्यामः । तस्मात् परोदीरितं हेतु निराचिकीर्षता वादिना
तद्गतपक्षवृत्तितादिधर्मपरीक्षणे मनः खेदनीयम्। न हि प्रतिहेतुत्वान्वेषिणा वृथाटाटया कर्तव्या।
ननु कतरदनयोः साधनयोरप्रयोजकं रचनात्वादस्मर्यमाणकर्तृकत्वादिति च। उच्यते । रचनात्वमेव प्रयोजकं न हि पुरुषमन्तरेण क्वचिदक्षरविन्यासो दृष्टः ।
भो भगवन्तः सभ्याः क्वेदं दृष्टं क्व वा श्रुतं लोके । यद् वाक्येषु पदानां रचना नैसगिकी भवति ॥ यदि स्वाभाविकी वेदे पदानां रचना भवेत् ।
पटे हि हन्त तन्तूनां कथं नैसर्गिकी न सा॥
'शन्नो देवीरभिष्टये', 'नारायणं नमस्कृत्य', 'अस्त्युत्तरस्यां दिशि देवतात्मा', 25 इति तुल्ये रचनात्वे क्वचित् कर्तृपूर्वकत्वमपरत्र तद्धिपर्यय इति महान् व्यामोहः ।
एवं धूमोऽपि कश्चिदग्निमान् कश्चिदनग्निक इत्यपि स्यात् । किमिदानी कुमारसम्भवतुल्योऽसौ वेदः सम्पन्नः ? अहो सर्वास्तिकधुर्येण वेदप्रामाण्यं साधितं नैयायिकेन ।
20