________________
आह्निकम् ]
प्रमाणप्रकरणम्
३२९
10
कत्रनुभवः कस्यचिज्जातः सर्गादेरभावात्, भावे वा कर्तुरशरीरत्वेन दर्शनयोग्यत्वाभावात्।
सशरीरत्वपक्षे वा पुरुषः कोऽपि तादृशः। तदानीं दृश्यमानोऽपि वेदं कुर्वन्न दृश्यते ॥ अधीयमाने दृष्टेऽस्मिस्तदा संशेरते जनाः। किमेष रचयेद् वेदमुत वान्यकृतं पठेत् ॥ यत्कृतं वा पठेदेष तस्मिन्नपि हि संशयः । भङ्गया चेदमनादित्वमुन्मीलदिव दृश्यते ॥ असत्यादिप्रमाणे च कर्तृतानुभवं प्रति । स्मृतिः प्रबन्धसिद्धापि स्पृशत्यन्धपरम्पराम् ॥ योगिभिर्ग्रहणं कर्तुरित्येतदपि दुर्वचम् । कर्तृता हृदि दुर्बोधा कथं गृह्येत तैरपि ॥ योगिभिः सा गृहीतेति वयमेतन मन्महे । अमन्वानाच गच्छेम विस्रब्धास्तत्पथं कथम् ॥ वेदात् कर्बवबोधे तु स्पष्टमन्योन्यसंश्रयम्।
ततो वेदप्रमाणत्वं वेदात् कर्तुश्च निश्चयः॥ तस्मात्पौर्वापर्यपर्यालोचनारहितयथाश्रुतमन्त्रार्थवादमूला भ्रान्तिरेषा न पुनः परमार्थतः कश्चित् कञ्चिद्वेदस्य कर्तारं स्मरति । तस्मादकृतका वेदाः, अवश्यस्मरणीयस्यापि कर्तुरस्मरणात् । न च व्यधिकरणो हेतुरस्मर्यमाणकर्तृकत्वादित्येवं साधनप्रयोगात्।
20
तस्मात् पौर्वापर्यपर्यालोचनेति । विधायकवाक्यानङ्गत्वेन केवलानां मन्त्रार्थवादानां विश्वतश्चक्षुरित्यादीनां अदर्शनाद् 'रौद्रं चरु निर्वपेत्' इत्यादिविधिवाक्यैकवाक्यतया व्यवस्थितानपि तान् पृथग् गृहीत्वा भ्राम्यन्ति । यथा 'घृतघटीमानय, यावद् आपणाद् घृतं गृह्येत' इत्येतद्वाक्यैकवाक्यतया 'घृतघटीमानय' इति स्थितं रिक्तघृतघटीसंप्रत्यायकं पृथक् क्रियमाणं पूर्णघृतघटीभ्रमं जनयति ।
25
४२