________________
३२८
न्यायमञ्ज
[चतुर्थम् नेतद्युक्तम्, एवम्प्रायाणां प्रयोगाणामप्रयोजकत्वात् । न हि तच्छब्दवाच्यत्वकृतमनादित्वमुपपद्यते । अनैकान्तिकश्चायं हेतु रतेऽप्येवमभिधातुं शक्यत्वात्, भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकं भारताध्ययनवाच्यत्वाद, इदानीन्तनभारताध्ययनवदिति,
ननु भारते कर्तृस्मृतिरविगीता विद्यते । यद्येवं वेदेऽपि प्रजापतिः कर्ता स्मर्यत एव । अथ वैदिकमन्त्रार्थवादमूलेयं प्रजापतिस्मृितिः, प्रजापतिना चत्वारो वेदा असृज्यन्त चत्वारो वर्णाश्चत्वार आश्रमा इति तत्र पाठादिति।
उच्यते । हन्त तहि भारतेऽपि तत्र वचनमूलव पाराशर्यस्मृतिरिति शक्यते वक्तुम् ।
यथा प्रजापतिदे तत्र तत्र प्रशस्यते। भारतेऽपि तथा व्यासस्तत्र तत्र प्रशस्यते ॥ अथ प्रणेता वेदस्य न दृष्टः केनचित् क्वचित् । द्वैपायनोऽपि किं दृष्टो भवत् पितृपितामहैः ॥ सर्वेषामविगीता चेत् स्मृतिः सत्यवतीसुते ।
प्रजापतिरपि स्रष्टा लोके सर्वत्र गीयते ॥ आः किमिति सदसद्विवेकविकलशाकटिकादिप्रवादविप्रलब्ध एवं भ्राम्यसि? किल स्वल्पमपि कर्म पित्रा मात्रा वोपदिश्यमानं तद्वचनप्रत्ययादनुष्ठीयते ? तदयमियाननेकक्लेशवित्तव्ययादिनिर्वयों वैदिकः कर्मकलाप एवमेव तदुपदेशिनमाप्तमस्मृत्वैव क्रियत इति महान् प्रमादः । एवञ्चोच्चावचकविरचितजरत पुस्तकलिखितकाव्यवद् अस्मर्यमाणकर्तृकेण वेदेन व्यवहारानुपपत्तेरवश्यस्मरणीयस्तत्र कर्ता स्यात् । न च कदाचन वेदेषु व्यवहारविच्छेदः सम्भाव्यते, येन तत्कृतं जरत् कूपारामादिष्विव तेषु कर्बस्मरणं स्यात् । तस्मादवश्यं स्मर्यंत कर्ता, न च संस्मर्यते स्मत्तुं शक्यते वा । स्मृतिहि भवन्ती तदनुभवमूला भवति न च मूलेऽपि
15
संशयः । अविगीता अविप्रतिपत्त्या स्थिता।
ननु सृष्टिकाले कर्तृदर्शन ‘स्मृतेमूलं भविष्यतीत्याह न च मूल इति प्रथमत इत्यर्थः।
__25