________________
चतुर्थमाह्निकम्
शब्दानामनित्यत्वात् वेदाः कर्तु पूर्वकाः
एवं कृतकत्वे वर्णानां साधिते सति वर्णात्मनः पदात् प्रभृति सर्वत्र पुरुषस्य स्वातन्त्र्यं सिद्धं भवति ।
पदनित्यत्वपक्षेऽपि वाक्ये तद् रचनात्मके । कर्तृत्वसम्भवात् पुंसो वेदः कथमकृत्रिमः ॥
तथा च वैदिक्यो रचना: कर्तृपूर्विकाः रचनात्वाल्लौकिकरचनावत् । एष च पञ्चलक्षणो हेतुः प्रयोजकश्चेति गमक एव न हेत्वाभासः । न तावदयमसिद्धो हेतुः 'शन्नो देवीरभीष्टये' इत्यादिषु वेदवाक्यसन्दर्भेषु पदरचनायाः स्वरक्रमादिविशेषवत्याः प्रत्यक्षत्वेन पक्षे हेतोः वर्तमानत्वात् । नापि विरुद्ध: कर्तृत्ववति सपक्षे कुमारसम्भवादौ रचनात्वस्य विद्यमानत्वात् । नाप्यनैकान्तिकः कर्तृरहितेषु गगनादिषु गगनकुसुमादिषु वा रचनाया अदृष्टत्वात् । नापि कालात्ययापदिष्टः प्रत्यक्षेणागमेन वा वेदे वक्त्रभावनिश्चयानुत्पादात् । नापि सत्प्रतिपक्षः प्रकरणचिन्ताहेतो: स्थाणुपुरुषविशेषानुपलब्धेरिव हेतुत्वेनानभिधानात् । नापि परमाण्वनित्यतायामिव मूर्त्तत्वम् प्रयोजकमिदं साधनम्, रचनाविशेषाणां कर्तृ व्यापारसाध्यत्वावधारणात् । यथा धूमस्य ज्वलनाधीन आत्मलाभो ज्ञप्तिस्तु धूमादग्नेस्तथेह कर्त्रधीना रचनानामभिनिवृत्तिः, प्रतीतिस्तु ताभ्यः कर्त्तुरिति । तस्मात् प्रयोजक एवायं हेतुः । वेदानामपौरुषेयत्वे मीमांसकानां पक्षः
15
ननु सत्प्रतिपक्षत्वे विवदन्ते च, तथा च मीमांसकः प्रतिहेतुरिह गीयते । वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥ इति ।
5
जटाजूटभरस्यन्दद्गङ्गाम्बुघनदुद्दिने ।
उल्लसच्चन्द्रकं वन्दे नीलकण्ठस्य ताण्डवम् ॥
॥ ॐ नमः शिवाय ॥ प्रकरणचिन्ताहेतोरिति । यत एव प्रकरणे पक्षे चिन्ता
10
20