SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ] प्रमाण प्रकरणम् विज्ञानग्राह्यता नाम वस्तुस्वाभाव्यबन्धना । नित्यत्वे कृतकत्वे वा न खल्वेषा प्रयोजिका ॥ अप्रयोजकता चैवम्प्रायाणां चैवमुच्यते । स्वयते प्रयुज्यन्ते हेतुत्वेनेति किन्त्विदम् ॥ एवं नित्यत्वे दुर्बलो युक्तिमार्गः तस्मान् मन्तव्यः कार्य एवेति शब्दः । वाचोयुक्तत्वे वैदिको योऽनुवादः न्याये प्रयुक्ते किंफलस्तत्प्रयोगः ॥ नाभावादिति यदुक्तं तदपि नृत्तम् । अनित्यस्यापि शब्दस्य न क्षणिकत्वम् क्षणभङ्गभावस्याभावादपि शब्दस्य क्षणिकतां न वक्तुमलम् । स्थूलवि- 10 सूक्ष्मविनाशापेक्षी नाशः स्थूलस्थिरस्य कुम्भादेः । प्रकृतितरलस्य नाशः शब्दस्य स एव हि स्थूलः ॥ सत्त्वाद्यदि क्षणिकतां कथयेत् पुरो वा शब्दस्तदैष कथमक्षणिकोऽभिधेयः । गत्यन्तराद् यदि तदेव हि तहि चिन्त्यं fi प्रौढवादिबहुमानपरिग्रहेण ॥ न्याये प्रत्युक्ते किफलस्तत्प्रयोग 'न्यायोक्ते लिङ्गदर्शनम्' इति भवद्भिरेव व्यवस्थापितत्वात् । न च शब्दनित्यत्वसिद्धौ न्यायोऽस्ति अतो निष्फलो 'वाचाविरूपनित्यया, इत्यादिलिङ्गदर्शनोपन्यासः । ३२५ सत्त्वाद् यदीति । न हि बौद्धानां स्थूलविनाशदर्शनमेव क्षणिकत्वे हेतुरपि तु सत्त्वाद्यपीत्याह । गत्यन्तरादनित्यत्वेऽर्थप्रत्यायकत्वानुपपत्तिलक्षणात् । शक्त्यन्तरादिति वा पाठे शक्त्यन्तरादर्थप्रत्यायनसामर्थ्यलक्षणात् । किं प्रौढवादिबहुमानपरिग्रहेण । 5 15 20
SR No.002345
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1982
Total Pages544
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy