________________
३२४ न्यायमञ्जयां
[ तृतीयम् कत्वादिति । कार्यपक्षे एव शब्दस्य नियतं ग्रहणमित्युक्तम्, प्रतिपुरुषं प्रत्युच्चार. णञ्च शब्दभेदस्यन्द्रियकत्वादिति वा हेत्वर्थः । तेन प्रत्यभिज्ञादुराशा श्रोत्रियाणामपाकृता भवति । कृतकवदुपचारादिति । तीव्रमन्दविभागाभिभवादिव्यवहारदर्शनात् सुखदुःखादिवदनित्यः शब्द इति दर्शितम् । तथा "प्रागुच्चारणादनुपलब्धः, आवरणानुपलब्धेश्च" इत्यनेन सूत्रेग शब्दाभावकृतमेव तदग्रहणमिति । न हि स्तिमिता वायवः शब्दमावरीतुमर्हन्ति, मूर्त हि मूर्तेन व्यवधीयते नामूर्तमाकाशादिवत् । न च प्रकृत्यैवाकाशादिवदतीन्द्रियः शब्दः, तस्नात् क्षणिकप्रतीतेस्तत्कालमेव शब्दस्यावस्थानमित्यस्थानहेतोरपि नान्यथासिद्धत्वम् । वात्तिककृता शब्दा
नित्यत्वे साधनमभिहितम्, अनित्यः शब्दो जातिमत्वे सत्यस्मदादिबाह्यकरणप्रत्यक्ष10 त्वाद् घटवदिति।
___ यत्त्वत्र जातीनामपि जातिमत्त्वादनकान्तिकमुद्भावितम् ‘एकार्थसमवायेन जातिर्जातिमती यतः' इति तदत्यन्तमनुपपन्नम्, निस्सामान्यानि सामान्यादीनीति सुप्रसिद्धत्वात्, न हि घटे घटत्वपार्थिवत्वे स्त इति घटत्वसामान्येऽपि पार्थिवत्वसामान्यमस्तीति शक्यते वक्तुम् । अतो निरवद्य एवायं हेतुः । तेन यदुच्यते
जातिमत्त्वैन्द्रियत्वादिवस्तुसन्मात्रबन्धनम्।
शब्दानित्यत्वसिद्ध्यर्थं, को वदे यो न तार्किकः ॥ इति तदविदिततार्किकपरिस्पन्दस्य व्याहृतम् । इह त्वप्रयोजका हेतवो भवन्ति ।
शस्तनोच्चारितस्तस्माद् गोशब्दोऽद्यापि वर्त्तते ।
गोशब्दज्ञानगम्यत्वाद् यथोक्तोऽद्येष गौरिति ॥ 20 कान्तिकमिति । अभिव्यङ्ग्येऽपि भावादिति । यदुक्तम् आवरणानुपलब्धश्चेति सूत्रा
वयवम् 'न हि स्तिमिता वायवः' इत्यनेन व्याख्यातुमाह । वातिककृतापीति उद्योतकरेण।
एकार्थसमवायेन इत्यस्योत्तरमर्धम् 'आधारत्वमयोच्येत नामूर्ताधीयते ह्यसौ' इति । एकस्मिन् गवादावणे समवेता या सत्ता गोत्वेन सह, तया जातिमत्ता गोत्वेन सह, 25 तया जातिमत्ता गोत्वादीनाम् ।
वस्तुसन्मात्रबन्धनमिति । जातिमत्त्वादिना वस्तुनः सन्मानं साधयितुं शक्यते, न पुनरनित्यत्वादिविशेष इत्यर्थः ।