________________
आह्निकम् ]
प्रमाणप्रकरणम्
३२३
नियतग्रहणसमर्थनाय अयमियान्प्रयासः क्रियते ? नियतग्रहणमपि कार्यपक्षानुगुणमिति दर्शयितुम् । न पुनरेषेव कार्यत्वे युक्तिरित्यलं सूक्ष्मेक्षिकया।
अपर आह परिस्पन्दविलक्षणस्य प्रत्यक्षत्वादकर्मत्वं शब्दस्य साध्यते, न समानजातीयारम्भकत्वादितीतरेतराश्रयस्पर्शोऽपि नास्तीति । तस्मात् सर्वथा परिशेषानुमानाच्छब्दस्य गुणत्वसिद्धिः ।
कथं तमुस्य महत्त्वादियोगो निर्गुणा गुणा इति काणादाः, अस्ति हि प्रतीतिर्महान शब्द इति ? समानजातीयगुणाभिप्रायं तत कणादवचन मिति न दोषः, तस्मादाकाशगुणः शब्दः । अपि च
यथात्मगुणता होच्छाद्वेषादेरुपपत्स्यते । शब्दो नयेन तेनैव भविष्यति नभोगुणः ॥
__10 ये तु समानजातीयशब्दारम्भकत्वनिषेधहेतवः शब्दत्वादित्यादयः परैरुपन्यस्तास्तेषामप्रयोजकत्वान्न साधनत्वम् ।
इत्थं सन्तानवृत्त्या च शब्दग्रहणसम्भवे । कल्पनाल्पतरास्माकं न शब्दव्यक्तिवादिनाम् ॥ शाक्यकापिलनिर्ग्रन्थग्रथितप्रक्रियां प्रति ।
यत्तु दूषणमाख्यातमस्माकं प्रियमेव तत् ॥ तस्मात् कार्यपक्षे नियतग्रहणोपपत्तेः, अभिव्यक्तिपक्षे च तदभावात् कार्य एव शब्द इति स्थितम्। शब्दानित्यतायां सूत्रकारसम्मतिः
तदिदमुक्तं सूत्रकृता 'आदिमत्त्वादन्द्रियकत्वात् कृतकवदुपचाराच्चानित्यः 20 शब्द' इति। आदिमत्त्वादिति । संयोगविभागादीनां शब्दे कारकत्वं न व्यञ्जकत्वमिति दर्शितम्, अतश्च न प्रयत्नान्तरीयकत्वमनैकान्तिकम् ऐन्द्रिय
15
न समानजातीयारम्भकत्वादिति । समानजातीयारम्भकत्वेनाकर्मत्वसाधने हीतरेतराश्रयत्वं स्यादिति भावः ।
आदिमत्त्वादिति । आदि: अनुत्पन्नस्योत्पादः । न प्रयत्नानन्तरीयकत्वम् अन- 25