________________
३२२ न्यायनजऱ्या
[ तृतीयम् न च व्योमाश्रितत्वमपि शब्दस्य प्रत्यक्षम्, अप्रत्यक्षे नभसि तदाश्रितत्वस्याप्यप्रत्यक्षत्वात्।
कथमाधारपारोक्ष्ये शब्दप्रत्यक्षतेति चेत् ।
यथैवात्मपरोक्षत्वे बुद्ध्यादेरुपलम्भनम् ॥ एतदेवासिद्धमिति चेद् अलं वादान्तरगमनेन, उपरिष्टान्निणेष्यमाणत्वात् ।
ननु गुणत्वसिद्धौ सत्यामाकाशाश्रितत्वं शब्दस्य भविष्यति, गुणस्य द्रव्यानाश्रितस्यादर्शनात्, पृथिव्यादीनाञ्च शब्दाश्रयत्वानुपपत्तेः । ततश्च गुणत्वे सत्येकद्रव्यत्वम्, एकद्रव्यत्वे सति गुणत्वमितीतरेतराश्रयत्वम् । तथा च समानजातीया
रम्भकत्वमपि गुणत्वसिद्धिमूलमेव, गुणत्वे सति शब्दरयाकाशाश्रितत्वात् तदात्मकेन 10 श्रोत्रेण ग्रहणम्, तच्च देशान्तरगतसंयोगविभागप्रभवस्य शब्दस्य सन्तानमन्तरेण
श्रोत्रदेशप्राप्त्यभावान्न सिद्ध्यतीति गुणत्वसिद्धिमूला सन्तानकल्पना। सन्तानकल्पनायाञ्च समानजात्यारम्भकत्वात् कर्मव्यवच्छेदे सति गुणत्वसिद्धिरितीतरेतराश्रयत्वमेव।
उच्यते । नोभयत्राप्येष दोषः । श्रोत्रग्राह्यत्वादेव शब्दस्याकाशाश्रितत्वं 15 कल्प्यते, समानजातीयारम्भकत्वञ्च गुणत्वात् । आकाशैकदेशो हि श्रोत्रमिति
प्रसाधितमेतत् । प्राप्यकारित्वञ्चेन्द्रियाणां वक्ष्यते । न चाकाशानाश्रितत्वे शब्दस्य श्रोत्रेण प्राप्तिर्भवति, न चाप्राप्तस्य ग्रहणमिति तदाचितत्वं कल्प्यते । एवं समानजातीयारम्भकत्वमपि तत एव श्रावणत्वात् दूरवर्तिनः शब्दस्य श्रवणे सति
कल्प्यते न तु गुणत्वादिति नेतरेतराश्रयत्वम् । कार्यत्वादाकाशाश्रितत्वं कल्प्यते 2। इत्येके।
ननु कार्यत्वादप्याकाशाशितत्वकल्पनायां तदवस्थमेवेतरेतराश्रयत्वम् । कार्यत्वादाकाशादि तत्कम्, आकाशाश्रितत्वे सति नियतग्रहणमूलं पूर्वरीत्या कार्यत्वमिति। नैतदेवम् । भेदविनाशप्रतिभासाभ्यामेव कार्यत्वसिद्धेः । किमर्थस्तहि
नियतग्रहणमूलमिति । नियतदेशं यदेतच्छब्दस्य ग्रहणमस्य कार्यत्वमेव मूलं 25 हेतु:, नित्यत्वपक्षे हि मद्रेष्कभिव्यत्तो गोशाद: कश्मीरेषु श्रूयेतेत्यादिना नियतदेशतया
ग्रहणाभावः प्रतिपादितः।