________________
प्रमाणप्रकरणम्
३२१
आह्निकम् ]
वीचीसन्तानदृष्टान्तः किञ्चित् साम्यादुदाहृतः ।
न तु वेगादिसामर्थ्य शब्दानामस्त्यपामिव ॥ यत्तु कुडयादिव्यवधाने किमिति विरमति शब्दसन्तानारम्भ इति, नैष दोषः, निरावरणस्य हि व्योम्नः शब्दारम्भे समवायिकारणत्वं तथादर्शनात कल्प्यते नाकाशमात्रस्येति । शब्दे गुणत्वसिद्धिः
*किमेतहि शब्दस्य गुणत्वे प्रमाणम्, परिशेषानुमानमिति ब्रूमः। प्रसक्तयोर्द्रव्यकर्मणोः प्रतिषेधे सामान्यादावप्रसङ्गाच्च गुण एवावशिष्यते शब्दः। कथं पुनर्न द्रव्यं शब्दः एकद्रव्यत्वात् ? अद्रव्यं वा भवति द्रव्यम्, आकाशपरमाण्वादि, अनेकद्रव्यं वा द्वयणुकादि कार्यद्रव्यम्। एकद्रव्यं तु शब्द एकाकाशाश्रितत्वात्, 10 तस्मान्न द्रव्यम । नापि कर्म शब्दः शब्दान्तरजनकत्वात् । कर्मणो हि समानजात्यारम्भकत्वं नास्ति । सत्ताशब्दत्वादिसामान्यसम्बन्धाच्च सामान्यादित्रयप्रसङ्गोऽस्य नास्तीति पारिशेष्याद् गुण एव शब्दः ।*
यदपि गुणत्वमसिद्धं शब्दस्येति, तत्र केचिद् आश्रितत्वाद् गुणत्वमाचक्षते। तदयुक्तम्
आश्रितत्वं गुणत्वे हि न प्रयोजकमिष्यते । षण्णामपि पदार्थानामाश्रितत्वस्य सम्भवात ॥ दिक्कालपरमाण्वादिनित्यद्रव्यातिरेकिणः । आश्रिताःषडपोष्यन्ते पदार्थाः कणभोजिना ॥
___15
अद्रव्यं वा भवति द्रव्यमिति । न विद्यते जनकं द्रव्यं यस्य । अनेकद्रव्यं जनकं 2 यस्येति च विग्रहोनेकद्रव्यमित्यत्र ।
आश्रिताः षडपीष्यन्ते पदार्थाः कणभोजिनेति । तदुक्तम् -“षण्णामाश्रितत्वमन्यत्र नित्यद्रव्येभ्यः” इति ।
*. टीकाकारधृतग्रन्थप्रतीकक्रममनुसृत्यैवास्माभिरत्र ग्रन्थक्रमो निर्दिष्ट इति मन्तव्यम् ।