________________
३२०
न्यायमञ्जयां
[ तृतीयम्
अधोमुखप्रयुक्तोऽपि शब्द ऊवं प्रतीयते। उत्तानवदनोक्तोऽपि नाधो न श्रूयते च सः॥ कदम्बगोलकाकारशब्दारम्भो हि सम्भवेत् । न पुनर्दश्यते लोके तादृशी मरुतां गतिः॥ आकण्ठानद्धनीरन्ध्रचर्मावृतमुखोदितः।
शब्दो यः श्रूयते तत्र न कोष्ठ्यानिलसर्पणम् ॥ कुड्यादिप्रतिबन्धेन वायोरप्रसरणं भवद्भिरपि कथितमेव, निर्विवरचर्मपुटोपरुद्धोऽप्यसौ न प्रसरेत्।
अपि च सर्वतोनिरुद्धनवद्वारस्यापि जठरे गुरगुराशब्दो मन्दाग्नेः श्रूयते, 10 अत्र कुतो व्यञ्जकानां कोष्ठ्यपवनानां निस्सृतिः ? रोमकूपनिःसृतानामपि सूक्ष्म
तया स्तिमितबाह्यवाय्वपसरणसामर्थ्याभावः । किञ्च मनागपि बहिर्वायौ वाति न शब्दश्रवणं स्यादिति। दुर्बलोऽपि बाह्यः पवनः प्रबलादपि कोष्ठयवायोर्बलीयान् भवतीति कथं तेनापसार्येत ? अन्ये एव सूक्ष्मा वायवः शब्दावरणकारिणो, न पुनरेते
परिदृश्यमानाः श्यामाः (?) श्यामाकलतालास्योपदेशिनो मातरिश्वान इति चेन्न, 15 विशेष प्रमाणाभावात् । यञ्च सूक्ष्मा अपि वायवः तिरोदधति तं सुतरां बलीयांसोऽपि
विवृणुयुरिति यत्किञ्चिदेतत् । तस्मात् सजातीयशब्दसन्तानारम्भपक्ष एव युक्त्यनुगुणः। तथा हि सजातीयगुणारम्भिणो गुणास्तावद् दृश्यन्त एव रूपादयः। अमूर्तापि च बुद्धिर्बुध्यन्तरमारभमाणा दृश्यते, प्रदेशान्तरेऽपि सैव कार्यमारभते, पथि गच्छतो
देवदत्तादेरेकस्माद् आत्मप्रदेशात् प्रदेशान्तरे बुद्ध्युत्पाददर्शनात् । कार्यारम्भ20 विरतिरपि भवति, अदृष्टाधीनसंसर्गाणां सहकारिणामनवस्थानात् ।
तीव्रणापि शनैरेवमतीव्रारम्भसम्भवः ।
सीदत्सचिवसामर्थ्यसापेक्षक्षीणवृत्तिना॥ प्रदेशान्तरे च सैव कार्यमारभत इति । गच्छतो धूमादिदर्शनादविनाभावसम्बन्धग्रहणद्वारेण यत्र धूमदर्शनं जातं ततो देशान्निःसृतस्य देशान्तरे वह्नयादिबुद्धि25 दर्शनादिति ।
सीदत्सचिवेति । सचिवाः सहकारिणः, सीददर्शनवद् यत् सामर्थ्य तत् सापेक्षतया मन्दा वृत्तिः स्वसामर्थ्यमिति यस्य ।