________________
आह्निकम् ] प्रमाणप्रकरणम्
३१६ यत्तु बुद्धिरेव तीव्रमन्दवतीति तदतीव सुभाषितम्, असति विषयभेदे बुद्धिभेदानुपपत्तेः।
किञ्च नित्यपरोक्षा ते बुद्धिरेवञ्च नादवत् । तदग्रहान्न तीवादितद्धर्मग्रहसम्भवः ॥ अहो तीव्रादयस्तीवे प्रपाते पतिता अमी। यो गृह्यते न तद्धर्मा यद्धर्माः स न गृह्यते ॥ यश्चाभिभववृत्तान्तस्त्वन्मते मरुतामसौ। अनिले चाभिभूतेऽपि शब्दो न श्रूयते कथम् ॥ दीपेऽभिभूते रविणा न हि रूपं न गृह्यते। नियतव्यञ्जकत्वन्तु प्रतिक्षिप्तमदर्शनात् ॥ यत्तु शङ्खादिशब्दानां श्रोत्रग्राह्यत्वसिद्धये। शब्दत्वं तत्र तद्ग्राह्यमित्यवादि तदप्यसत् ॥ सत्यं वदत दृष्टं वा श्रुतं वा क्वचिदीदृशम् । आश्रयस्य परोक्षत्वे तत्सामान्योपलम्भनम् ॥ शब्दो न तेऽस्त्यवर्णात्मा न शब्दो वर्णसम्भवः ।
न नादवृत्ति शब्दत्वमिति तद्ग्रहणं कथम् ॥ अभिव्यङ्गयापेक्षया कार्यपक्ष एव शब्दस्य लघुतरः
___ यत् पुनरिदं सन्धारितं व्यङ्गयकार्यपक्षयोः क्व शब्दग्रहणे गुर्वी कल्पना भवति क्व वा लघ्वीति, तदपि मौलप्रमाणविचारसापेक्षत्वादप्रयोजकम् ।
यदि मौलप्रमाणेन साधिता नित्यशब्दता।
त्वदुक्ता कल्पना साध्वी मदुक्ता तु विपर्यये ॥ कोष्ठयेन च बहिः प्रसरता समीरणेन सर्वतः स्मिमितमारुतापसरणं क्रियते इत्येतदेव तावदलौकिकं कल्पितम्, 'अग्नेरूद्धज्वलनम्, वायोस्तिर्यग्गमनम; अणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि'' इति मरुतां तिर्यग्गमनस्वभावत्वादूर्ध्वमधश्च शब्दश्रवणं न भवेत् ।
यावन्न वेगिनान्येन प्रेरितो मातरिश्वना। तावन्नैसर्गिको वायुर्न तिर्यग्गतिमुज्झति ॥