________________
5
न्यायमञ्जर्यां
[ तृतीयम् __ इन्द्रियाणां भौतिकत्वस्य साधयिष्यमाणत्वाद् दिशश्चामूर्तत्वानेन्द्रियप्रकृतित्वम्, व्यापकत्वाविशेषे वा कालात्मनोरपि तथाभावप्रसङ्गः। तयोरन्यत्र व्यापारकत्वान्नेन्द्रियप्रकृतित्वमिति चेद्, दिग्द्रव्येऽपि तुल्यमेतत्, आगमस्य चान्यपरत्वम् यथा हि सूर्य चक्षुर्गमयताद दिशः श्रोत्रमिति पठ्यते एवमन्तरिक्षमसूनिति च पठ्यत एव, न चासवोऽन्तरिक्षप्रकृतिकाः पवनात्मकत्वात् । तस्मात् कृतं दिशा। आकाशदेश एव कर्णशष्कुल्यवच्छिन्नः शब्दनिमित्तोपभोगतापकधर्माधर्मोपनिबद्धः श्रोत्रमित्युक्तम् ।
ननु धर्माधर्मकृतश्रोत्रनियमवदभिव्यक्तिनियमोऽपि शब्दस्य तत्कृत एव भविष्यति, कि मिति तदनियमो नित्यत्वपक्षे चोधते इति, नैतद्युक्तम् । चक्षुरा10 दीन्द्रियाणां वैकल्यमदृष्टनिबन्धनमन्धकारप्रभृतिषु दृश्यते, न पुनः पदार्थस्थितिर
दृष्टवशाद विपरिवर्तते। व्यञ्जकधर्मातिकमे हि हिममपि शैत्यं स्वधर्ममतिकामेत् । व्यञ्जकेषु नियमो न दृष्ट इत्युक्तम्, दृष्टे च वर्गभेदे नियतोपलब्धिहेतौ सम्भवति सति किमयमदृष्टमस्तके भार आरोप्यते ? कथञ्चाभिव्यक्तिपक्षे तीव्रमन्दविभागः, तीव्रतादयो हि वर्णधर्मा वा स्युः, ध्वनिधर्मा वा । वर्णधर्मत्वे तीव्रगकारादन्यत्वं मन्दस्येत्यस्मन्मतानुप्रवेशः।
ध्वनिधर्मत्वपक्षे तु श्रोत्रेण ग्रहणं कथम् ।
न हि वायुगतो वेगः श्रवणेनोपलभ्यते ॥ यत्तु व्यक्तिधर्माः कृशत्वस्थूलत्वादयो जातावुपलभ्यते इति दर्शितं तत् काममुपपद्येतापि जातेय॑क्तस्तद्धर्माणाञ्च समानेन्द्रियग्राह्यत्वात् ।
इह तु स्पर्शनग्राह्यः पवनोऽतीन्द्रियोऽथ वा। तद्धर्माः श्रावणे शब्दे गृह्यन्त इति विस्मयः ॥
15
आगमस्य चाऽन्यपरत्वम्। अनेन हि ‘सूर्यं ते चक्षुर्गमयताद् दिशः श्रोत्रम्' इत्यादिना पशुसंज्ञपनकाले शमिता प्रोत्साह्यते 'ते तव पशोः सम्बन्धि चक्षुरयं शमिता सूर्य गमयतात्' इति; न च भवता शमित्रा अस्य पशोरपकारः क्रियते प्रत्युतोपकार एव, एतच्छरीरावयवानां देव मूर्तिप्राप्तिहेतुत्वाद् भवतः। पशुनिहन्ता अध्वर्युकर्मकरः शमितेत्युच्यते।
-