________________
३१७
आह्निकम् ]
प्रमाणप्रकरणम् व्यवस्था व्यञ्जकानां चेदुच्यतेऽदृष्टकारिता।
उत्पत्तौ दृश्यमानायां दृष्टमप्यविरोधकम् ॥ न च स्तिमितमारुतापनयनव्यतिरिक्तः कश्चन श्रोत्रसंस्कारो विद्यते । तत्र चातिप्रसङ्ग उक्त एव अतिरिक्तसंस्कारकल्पनायान्त्वदृष्टकल्पना, स्थिरे च शब्दसंस्कारग्रहणमिति पुनरनभिव्यक्तस्यापि गोशब्दस्य श्रवणं स्यात्, तद्ग्रहणहेतोः । संस्कारस्य स्थिरत्वात्, तत्क्षणिकत्वे तु शब्दक्षणिकतैव साध्वी प्रतीयमानत्वात् ।
यत्तु भर्तृमित्रस्तमेव संस्कारं श्रोत्रेन्द्रियमभ्युपैति तदिदमपूर्व किमपि पाण्डित्यम् । इन्द्रियस्य हि संस्कार्यस्य कल्पनमनुपपन्नम् । अनश्वरत्वे तु शश्वदेव शब्दकोलाहलप्रसङ्ग इति यत्किञ्चिदेतत्, भट्टेनैव सोपहासमेष दूषितः इति किमत्र विमर्दैन। यदपि भट्ट आह
यदि त्ववश्यं वक्तव्यस्ताकिकोक्तिविपर्ययः।
ततो वेदानुसारेण कार्या दिकश्रोत्रतामतिः ॥ इति तदप्यसाम्प्रतम्
दिशां कार्यान्तराक्षेपादागमान्यपरत्वतः। आहोपुरुषिकामात्रं दिग्द्रव्यश्रोत्रकल्पनम् ॥
भट्टेन सोपहासमेष दूषित इति । यथाह भट्टः अनुमेव च संस्कारं शब्दग्रहणकारणम् ॥ केचित्त पण्डितम्मन्याः श्रोत्रमित्येव मन्वते । संज्ञासञ्चारणादेष बहुमानः स्वचेतसि ।। मुधैषां बहुमानोऽयं वस्त्वनुत्पाद्य किञ्चन । संस्कारव्यतिरिक्ते च सर्वलोकस्य वस्तुनि ॥
श्रोत्रशब्दः प्रसिद्धोऽयं स्वाच्छान्द्येनापनीयते । ततो वेदानुसारेणेति । 'दिशः श्रोत्रम्' इति वेदानुसारेण ।
दिशः कार्यान्तराक्षेपादिति । कार्यान्तरेण पूर्वापरादिप्रत्ययेन दिगाक्षिप्यते 25 सत्तया व्यवस्थाप्यते। आकाशस्य तु शब्दव्यतिरेकेणान्यत् कार्यान्तरं नास्तीति ।