________________
न्यायमञ्जयां
[ तृतीयम् किं नाम शब्दनित्यत्वसमर्थनतृषातुरः ।
जङ्गमं स्थावरञ्चैव सकलं पातुमिच्छसि ॥ तस्मादलमतिरभसवृत्ताभिराभिर्बुद्धिकर्मादिनित्यत्वसमर्थनकथाभिः । शब्दानामभिव्यक्तिपक्षनिरसनम्
यत्पुनरभिव्यक्तिपक्षे शब्दस्य ग्रहणे नियमाभावमाशङ्कय श्रोत्रसंस्कारेण विषयसंस्कारेण उभयसंस्कारेण वा नियतं ग्रहणमुपवणितं तद्वञ्चनामात्रम्, समानदेशानां समानेन्द्रियग्राह्याणां प्रतिनियतव्यञ्जकव्यङ्गयत्वादर्शनात्, ये पुनरत्र गन्धा उदाहृतास्ते समानेन्द्रियग्राह्या भवन्ति न समानदेशाः ।
एकभूम्याश्रितत्वेन तुल्यदेशत्वकल्पने। भवेत् समानदेशत्वं हिमवद्विन्ध्ययोरपि ॥ एकत्वेऽपि भुवो भान्ति पदार्थाः पार्थिवाः पृथक् । व्यज्यन्ते तदधिष्ठाना गन्धास्तैस्तैनिबन्धनः ॥ भवन्त्वनाश्रिताः शब्दा यदि वाकाशसंश्रिताः ।
सर्वथा भिन्नदेशत्वमेषां वक्तुं न शक्यते ॥ ननु यर्थकत्वेऽपि नभसः तद्भागकल्पनया प्रतिपुरुषं श्रोत्रेन्द्रियभेद एवं तद्भागकल्पनयैव शब्दानामपि असमानदेशत्वान्नियतव्यञ्जकव्यङ्गयता भविष्यति । नैवमुपपद्यते यत्रैव वक्तमुखाकाशदेशे श्रोतृश्रोत्राकाशदेशे वा गोशब्द उपलब्धः तत्रवाश्वशब्द इदानीमुपलभ्यते न पुनरतिमुक्तकुसुमे य उपलब्धो गन्धः स बन्धके मधूके वा कदाचिदुपलभ्यत इति ।
तस्मात् समानदेशत्वान्न व्यक्तौ नियमो भवेत् । उत्पत्तौ तु व्यवस्थायां तद्भद उपपद्यते ॥ नादः संस्क्रियतां शब्दः श्रोत्रं वा द्वयमेव वा। सर्वथा नियमो नास्ति व्यञ्जकेष्विति निश्चयः ॥
ये पुनरत्र गन्धा उदाहृता इति । यथा दग्धभुवो जलसम्पर्काद् गन्धाभिव्यक्ति10 स्तैलस्य चातपयोगादिति ।