________________
आह्निकम् ] प्रमाणप्रकरणम्
३१५ अन्ये भन्यन्ते स्मयमाणपूर्वज्ञान विशेषितार्थप्राहित्वात् प्रत्यभिज्ञायास्तद्विशेषणस्य चार्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिज्ञेति ।
निर्बन्धस्त्विह नास्माकं सा यथास्तु तथास्तु वा । शब्दे विनाशज्ञानात्त न सा नित्यत्वसाधिका ॥ बाध्यबाधकभावे तु नियमो ननु किंकृतः। शब्दस्य प्रत्यभिज्ञानविनाशप्रतिभासयोः ॥ उच्यते प्रत्यभिज्ञानमन्यथाप्युपपद्यते । गत्वादिजातिविषयं यद्वा सादृश्यहेतुकम् ॥ न त्वभिव्यञ्जकध्वंसान्नाशधीरपि सेत्स्यति । तदसावपि बाध्यास्तु यद्वा भवतु संशयः॥ मैवं विनाशिताबुद्धिर्भेदबुद्ध्युपबृंहिता। सा चेयञ्चान्यथासिद्ध इति वक्तमसाम्प्रतम् ॥ प्रत्यभिज्ञा च सापेक्षा निरपेक्षा त्वभावधीः ।
तेनैवमादौ विषये प्रत्यभिज्ञव बाध्यते ॥ शब्दाभावस्य ग्रहणात् प्रत्यभिज्ञायाश्च पूर्वानुसन्धानादिसव्यपेक्षत्वात् । अपि 15 च प्रत्यभिज्ञा व्यभिचरति कर्मादिषु गृह्यते । तेनास्यां शब्देऽप्यभावप्रत्ययोपहतवपुषि कः समाश्वासः । न चेदं प्रत्यक्षेऽप्यनै कान्तिकत्वोद्भावनम्, अपि तु विनाशप्रत्ययप्रतिहतप्रभावा प्रत्यभिज्ञा नित्यत्वं कर्मादिष्विव शब्देऽपि न साधयितुं प्रभवतीति दृष्टान्तस्य कोऽवसरः ? सत्यम्, ग्राहिकास्तु भवादृशाः स्वयमनवबुध्यमाना एवं बुद्ध्यन्ते।
__ यत्तु प्रवृद्धरभसतया बुद्धिकर्मादावपि नित्यत्वसमर्थनं तदत्यन्तमलौकिकमित्युक्तम् ।
20
नियमो ननु किंकृत इति । विनाशधीरेव बाधिका न प्रत्यभिज्ञा इत्येवंरूपः।
मैवं विनाशिताबुद्धिरिति । प्रत्युच्चारणं हि शब्दा भिन्ना उपलभ्यन्ते, सति । चैक्ये भेदबुद्धिर्नानुगुणेति भेदबुद्धिविनाशावगमस्योपोद्वलिका। सा चेयमिति यथा प्रत्य- 25 भिज्ञा सादृश्यादिनाप्युपपद्यत इत्यन्यथासिद्धा नैवं विनाशवीरित्यर्थः ।