________________
३१४
न्यायमञ्जयां
[ तृतीयम्
नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम् । विशेषं प्रत्यभिज्ञाने न पश्यामो मनागपि ॥ शब्दस्य प्रत्यभिज्ञानवेलायामेव दृश्यते। शब्दरूपस्य विध्वंस इति तन्नित्यता कुतः ॥
प्रत्यभिज्ञयापि न शब्दनित्यत्वसिद्धिः ___ यद्यपि च क्षणभङ्गभङ्ग प्रत्यभिज्ञाप्रामाण्यमस्माभिरपि समर्थयिष्यते तथापि स्तम्भादिप्रत्यभिज्ञायाः शब्दप्रत्यभिज्ञाया एष एव विशेषो यदत्र ध्वस्तः शब्द इति तदैव प्रत्ययो जायते अत एव तिरोहितेऽपि भावादियमप्रमाणं प्रत्यभिज्ञत्याहुः।
यद्यपि ध्रियतेऽस्माकं शब्दो द्वित्रानपि क्षणान् ।
प्रत्यभिज्ञा तु कालेन तावता नावकल्पते ॥ तथा हि शब्द उत्पद्यते तावत् ततः स्वविषयं ज्ञानं जनयति, अजनकस्य प्रतिभासायोगात् । ततस्तेन ज्ञानेन शब्दो गृह्यते, ततः संस्कारबोधः, ततः पूर्वज्ञात
शब्दस्मरणम्, ततस्तत्सचिवं श्रोत्रं मनो वा शब्दप्रत्यभिज्ञानं जनयिष्यति तथा 15 शब्दो ग्रहीष्यत इति यत् कुतोऽस्य दीर्घमायुः। प्रत्यभिज्ञाप्रामाण्यादेव तावदायुस्तस्य
कल्प्यते इति चेत्, सत्यं कल्प्यते यदि विनाशप्रत्ययस्तदैव न स्यात् । अपि च गोशब्दोऽयमश्वशब्दोऽयमिति तदभिधानविशेषोल्लेखात् ।
नानानुस्मरणं तस्य तदैवावश्यमापतेत् । विज्ञानयोगपद्याच्च कालो दीर्घतरो भवेत् ॥ यदप्युदितमुद्दाममेघश्यामासु रात्रिषु । साम्यं सौदामिनीधामजन्यया प्रत्यभिज्ञया ॥ तदसत् कालदर्येण तदवस्थितिसम्भवात् ।
विद्युद्दष्टे च वृक्षादौ नाशसंवित्त्यसम्भवात् ॥
प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानाधिकरण्यग्राहिणी संस्कार15 सचिवेन्द्रियजन्या प्रतीतिरिति केचित् ।