________________
आह्निकम् ]
शब्द नित्यत्वपक्षपरिहारः
प्रकृतमुच्यते । गत्वादिभिर्जातिभिरेवार्थ सम्प्रत्ययोपपत्तेर्यदुक्तम् 'नित्यस्तु दर्शनस्य परार्थत्वात्' इति एतदयुक्तम् । एतेन 'सर्वत्र यौगपद्यात्' इत्येतदपि प्रत्युक्तम्, सम्बन्धनियमस्य गत्वादिभ्य एव सिद्धेः ।
प्रमाण प्रकरणम्
यदपि संख्याभावात् कृत्वसुच् प्रयोगदर्शनमुदग्राहि तदपि व्यभिचारि । 5 कृतं कान्तस्य तन्वङ्ग्या त्रिरपाङ्गविलोकनम् । चतुरालिङ्गनं गाढमष्टकृत्वश्च चुम्बनम् ॥ इति ।
तद्भेदेऽपि दर्शनात् । अथ तत्र स्त्रीपुंसयोरभेदे चुम्बनादिक्रियामात्रभेद एवेत्युच्यते तथाप्यपूर्वेषु ब्राह्मणेषु भुक्तवत्सु पञ्चकृत्वो ब्राह्मणा भुक्तवन्त इति व्यवहारो दृश्यते ।
३१३
कविना सदनुप्रासे निबद्धेऽक्षरडम्बरे । कारा बहवो दृष्टा इति व्यवहरन्ति हि ॥
यदपि प्रत्यभिज्ञानं तद्द्द्वारकमुदाहृतम् । तस्यापि सिद्धे प्रामाण्ये जात्यालम्बनता भवेत् ॥
10
एतेन 'सर्वत्र यौगपद्यादिति । सर्वत्र सर्वगवीषु गोशब्दादुच्चारिताद् युगपत् प्रत्ययदर्शनादाकृतिवचनत्वं गवादेः शब्दस्यावगम्यते, व्यक्तिवचनत्वे हि नियतैकव्यक्तिप्रतिपत्तिः स्यात् । तत्र च द्रव्यत्व - सत्ताद्याकृतीनां बह्वीनामपि सम्भवान्नियताकृतिवचनत्वमन्वयव्यतिरेकाभ्यामसकृत्प्रयोगान्निश्चीयते. असकृत्प्रयोगश्च नित्यत्वं विना न घटत इति 'सर्वत्र यौगपद्यात्' इति सूत्रार्थः ।
एतदपि गत्वा दिजात्युपलक्षितानां भिन्नानामपि प्रयोगे सिद्धयत्यनित्यत्वपक्षे ऽ- 20 पीत्यनेनाभिप्रायेणोक्तम् पञ्चकृत्वो ब्राह्मणा भुक्तवन्त इति । अत्र भुजिक्रियावद्भोक्तॄणामप्यन्यत्वम् ।
यदपि 'सङ्ख्याभावात्' इति सूत्रम् शब्दे सङ्ख्याया अभावान्नित्यत्वमित्यस्यार्थः । सङ्ख्याया अभावाच्च यथा नित्यत्वं तथाह भाष्यकार : " अष्टकृत्वो गोशब्द उच्चरित इति हि वदन्ति नाष्टौ गोशब्दा इति । किमतो यद्येवम् ? अनेन वचनेनावगम्यते प्रत्यभिजानन्तीति" इदमेव चेदृशं भाष्यं चेतसि निधायाह यदपि प्रत्यभिज्ञानं तद्द्वारकमुदाहृतमिति । तद्द्वारकं 'कृत्वसू' प्रयोगद्वारकमित्यर्थः ।
४०
15
25