________________
३१२
न्यायमञ्जयाँ
[तृतीयम्
जकत्वात्, अनुसन्धानं हि सारूप्याद् विजातीयेष्वपि भवति गवयग्रहणसमये गोपिण्डानुसन्धानवत्, तस्मादबाधितकरूपप्रत्ययप्रतिष्ठ एव सामान्यव्यवहारः।
समानबुद्धिग्राह्येऽपि सामान्येऽवस्थिते क्वचित् । भवत्यन्यानुसन्धानं क्वचिद्वा न भवत्यपि ॥ तदस्ति खण्डमुण्डादौ पिण्डसारूप्यकारितम् ।
गकारादिषु वर्णेषु तदभावात्तु नास्ति तत् ॥ न तु सामान्याभावात् । न च सारूप्यमेव सामान्यं साङ्घयवदभिधातुं युक्तं विजातीयेष्वपि गोगवयादिषु तस्य दृष्टत्वात् । यदि च शब्दः शब्द इत्यनुवृत्तबुद्धः
श्रोत्रगम्यत्वोपाधिकृतत्वमुच्यते तहि गवादावप्येकबुद्धर्वाहदोहाघेकार्थक्रियाका10 रित्वनिबन्धनत्वाद् गोत्वादिजातिनिहवो बौद्धवमन्तव्यः। न चैतदेवम्, तद् गोत्ववच्छब्दत्वमपि न प्रत्याख्येयम् ।
एतेन ब्राह्मणत्वादिसामान्यमपि समर्थितं वेदितव्यम्, उपदेशसहायप्रत्यक्षगम्यत्वात् । न चोपदेशापेक्षणादप्रत्यक्षत्वं तस्य भवितुमर्हति गोत्वादिप्रत्ययस्यापि सम्बन्धग्रहणकाले तदपेक्षत्वदर्शनात् । उक्तञ्च न हि यद् गिरिशृङ्गमारुह्य गृह्यते तदप्रत्यक्षमिति । न चौपाधिकः पैठीनसिपप्पलादिप्रभृतिषु ब्राह्मणप्रत्ययः, उपाधेरग्रहणात्, औपाधिकत्वस्य गोत्वादावपि वक्तुं शक्यत्वात् ।
अपि चोपदेशनिरपेक्षमपि चक्षुः क्षत्रियादिविलक्षणां सौम्याकृति ब्राह्मणजातिमवगच्छति इत्येके । तदलमनया कथया ।
20
गवयग्रहणसमये गोपिण्डानुसन्धानवदिति । अनेनानुसन्धानस्य परामर्शकत्वात् स्मरणस्वभावाभेदात् सादृश्यदर्शनमेव हेतुत्वेन कल्प्यते न सामान्यानुभव इति ।
पिण्डसारूप्यकारितं पिण्डसादृश्यजनितमित्यर्थः ।
एतेन ब्राह्मणत्वादीति । एतेन श्रवणग्राह्यत्वकृतशब्दः 'शब्द' इत्यभेदप्रत्ययनिराकरणेन । 'ब्राह्मणो ब्राह्मणः' इत्यादिरप्यभेदप्रत्ययो विशिष्टानुष्टानाद्युपाधिकृत इति हि स आह। गिरिशृङ्गमारुह्यति । सापेक्षतया सङ्क्लेशतया तदपेक्षया
दृष्टान्तः।