________________
प्रमाणप्रकरणम्
आह्निकम् ]
३११ रण्यशब्दभ्यां भिन्नार्थप्रतीतिरुपपत्स्यते। उदात्तानुदात्तस्वरितसंवृतविवृतादिभेदोऽपि शब्दविदां प्रत्यक्ष एव गीतज्ञानामिव स्वरग्रामभाषाविभागः। तस्मादष्टादशभेदमकारमाक्षते, अत्वञ्च तत्सामान्यमवर्णकुलशब्देन व्यवहरन्तीति प्रतिपद्यन्ते लोकान मरुद्भ्यः। अथ मरुतामपि तथा व्युत्पत्तेरर्थप्रतीतिहेतुत्वम् ? तहि व्युत्पत्तिरेव प्रमाणं स्याद् न शब्दः, व्युत्पत्तरव्यभिचारात् शब्दस्य च व्यभिचारा- 5 दित्यास्तामेतत् ।
तस्माद् गत्वादिसामान्यरर्थसम्प्रत्ययात्मनः ।
कार्यस्य परिनिष्पत्तेर्न वर्णव्यक्तिनित्यता ॥ प्रभाकरमते शब्दत्वसामान्याक्षेपः
अपर आह, तिष्ठतु तावद् दूरत एव गत्वाद्यपरसामान्यं महासामान्यमपि १० शब्दत्वं वर्णेषु नोपपद्यते।
व्यक्त्यन्तरानुसन्धानं यत्रैकव्यक्तिदर्शने। तत्रैकरूपसामान्यमिष्यते तत्कृतं हि तत् ॥ गकारश्रुतिवेलायां न वकारावमर्शनम् । बाहुलेयपरामर्शः शाबलेयग्रहे यथा ॥ शब्दः शब्दोऽयमित्येवं प्रतीतिस्त्वप्रयोजिका।
एषा हि श्रोत्रगम्यत्वमुपाधिमनुरुध्यते ॥ तन्मतनिरासः
तदेतन्निरनुसन्धानस्याभिधानम्, अनुसन्धानप्रत्ययस्य सामान्यसिद्धावप्रयो
15
मरुतामपि तथा व्युत्पतेरिति । यथा व्यञ्जकवशाद् अकार एव दीर्घतया 20 प्रतिभाति तथा अगमन-आगमनादौ भेदप्रतीतिदर्शनात् तथैव व्युत्पत्तिः ।
अपर आहेति प्रभाकरः।
व्यक्त्यन्तरानुसन्धानमिति । व्यक्त्यन्तरे दृष्टे पूर्वानुभूतस्य गव्यक्त्यन्तरस्य यत्रानुसन्धानं परामर्शः। तत्कृतं हि तत्; यत् कस्याश्चिद् व्यक्तेर्व्यक्त्यन्तरेऽनुसन्धान न सर्वासां तत् सामान्यकृतमित्यर्थः ।
22