________________
३१०
न्यायमञ्जयां
[तृतीयम्
अपि च शाबलेयादिभेदप्रत्ययस्यापि व्यञ्जकभेदनिबन्धनत्वादेक एवासौ स्यात् । ननु तत्र को व्यञ्जको यद्भेदकृतः पिण्डभेदप्रत्यय इष्यते । आह च
न पिण्डव्यतिरेकेण व्यञ्जकोऽत्र ध्वनिर्यथा।
पिण्डव्यङ्गचैव गोत्वादिजातिनित्यं प्रतीयते ॥ इति तदयुक्तम्, गोत्वजातेर्गत्ववदिदानी विवादास्पदीभूतत्वात् पिण्डभेदप्रत्ययस्य चक्षुर्व्यापारभेदादप्युपपत्तेः।
ननु सकृदपि व्यापृतलोचनस्य परस्परविभक्तपिण्डप्रतिभासो भवति, मैवम्, तदानां गोमात्रप्रतीतिः, एष शाबलेय एष बाहुलेय इति तु विशेषणग्रहणे चक्षुic ापारभेदोऽपरिहार्यः। यदि चाद्यगोपिण्डभेदे प्रथमाक्षसन्निपातजा बुद्धिः सुभगतां
गता गकारभेदे तर्हि किंकृतमस्या दौर्भाग्यम् । तत्रापि प्रथमश्रोत्रव्यापारवेलायामनवगतव्यञ्जकविभागस्यापि गगनगङ्गादौ गकारभेदः प्रतिभासत एवेत्यलं प्रसङ्गन।
तदयं वस्तुसंक्षेपः, उपेक्ष्यतां वा सर्वत्र सामान्यविशेषव्यवहारः, इष्यतां वा 15 गोत्वादिवद्गकारभेदवृत्ति गत्वसामान्यम् ।
अत्वमपि गत्ववदप्रत्याख्येयम्, इतरेतरविलक्षणानामकाराणां ह्रस्वदीर्घप्लुतादिभेदेन प्रतिभासात्, यः पुनर(?) कारेऽप्यकारप्रत्यभिज्ञानं ब्रूयात् तस्येकारोकारप्रतीतिष्वप्यकारस्यैव ग्रहणप्रसक्तिरचत्वाविशेषात् । अथ तदविशेषेऽपि अवर्णादिवर्णस्य भेद इष्यते स ताकारस्य न निह्रोतव्यः । एवञ्च सत्यरण्यार
गत्ववदिदानी विवादास्पदीभूतत्वादिति । यथा भेदाधिष्ठानं गत्व गव्यक्तिभेदस्यौपाधिकत्वेन स्वतो गवर्णस्य भेदाभावान्निराक्रियते तद्वत् शाबलेयादि भेदप्रतिभासस्याप्यौपाधिकत्वेन पिण्डभेदस्य स्वतोऽसम्भवाद् भेदाधिष्ठानगोत्वाभावः । चक्षु
ापारभेदादप्युपपत्तेरिति । यथैकोऽपि वर्णो ध्वनिभेदाद् भिन्नः प्रतिभासते तथैकोऽपि गौः पुनः पुनश्चक्षुषा दृश्यमानः शाबलेयादिभेदेन प्रतिभासत इत्यर्थः ।
अत्वाभ्युपगमे अगमनशब्दवदागमनेऽप्यकारप्रत्यभिज्ञाने तुल्यार्थताशङ्कानिवारणायाह यः पुनर(?) कारेऽपीति।
25