________________
प्रमाणप्रकरणम्
३०६
आह्निकम् ] नानात्वं तथा वर्णस्याप्युदात्तादिभेदवतः । शुक्लगुणोऽप्येक एव आश्रयभेदात्तु तद्भेद इति चेद् अहो रससमारूढो भट्टः ।
कमकं बुद्धिरप्येका जगत्येकः सितो गुणः ।
तैश्च तन्नित्यमित्येताः स्त्रीगृहे कामुकोक्तयः॥ अपिचकात्मवादोऽप्येवमेवावतरेत् सुखिदुःख्यादिभेदस्य शरीरभेदेनाप्युपपत्तः। 5 अद्वैतस्य च नातिदवीयानेष पन्था इत्यलमलीकविकत्थनेन । तस्माद् बुद्धयादिवत् सर्वदा सविशेषाणामेव वर्णानां ग्रहणान्नानात्वम् तत्रैतत् स्याद् गगनादावकारोपश्लेषकृत एव भेदप्रत्ययो न स्वरूपभेद इति, तदयुक्तम्, अकारस्यापि भवन्मते भेदाभावात् । अविद्यमाने च तदुपश्लेषे दिगजो दिग्गज इति भेदेन प्रतिभासो भवत्येव। तथा च समदः सम्मदः, पटः पट्टः, आसनम् आसन्नम्, मलः मल्लः, अविकः 10 . अविक्कः, पतिः पत्तिः, पत्तनं पतनमित्यादावपि वर्णभेदप्रतीतिः, अर्थप्रतीतिभेदोऽपि च दिगजदिग्गजादौ शब्दान्तरनिमित्तको भवितुमर्हति न द्विरुच्चारणकृतः । ग्रन्थाधिक्यादर्थाधिक्यं नोच्चारणभेदात्, शतकृत्वोऽपि प्रयुक्ते गोशब्दे सास्नादिमदर्थव्यतिरिक्तवाच्यसम्प्रत्ययाभावात् । तथा च दिग्गज इति द्विगकारको निर्देश इत्याचक्षते शब्दविदो न द्विर्गकार उच्चरित इति ।
15 ननु गोगुरुगिरिगेहादावज्भेदेऽपि गकारप्रत्ययानुवृत्तेरेक एवायं गकारः, मैवं वोचः, एष एव हि भेदप्रत्ययोऽस्माभिरुपदर्शितः विनापि च अजुपश्लेषं दिग्गजादौ भेदप्रत्ययो वर्णितः । न च वयमभेदप्रत्ययमपह नुमहे किन्तु भेदप्रत्ययस्याप्यबाधितस्य भावादनन्यथासिद्धत्वाच्च गवादिवत्सामान्यविशेषरूपतां ब्रूमः, व्यञ्जकभेदनिबन्धनत्वन्तु यरलवादावपि वक्तुं शक्यमित्युक्तमेव ।
20
अहो रसमारूढो भट्ट इति । तथाहि गुणनित्यतां प्रत्यप्यसावाह एतयैव दिशा वाच्या शुक्लादेरपि नित्यता। संसर्गिभेदमात्रेण स्यात्तत्रापि हि भेदधीः ॥
स्वरूपं तु तदेवेति को जातीः कल्पयिष्यति । इत्यादि । अद्वैतस्य च नातिदवीयानिति । उपलभ्यमानभेदनिराकरणद्वारेण ।