________________
३०८ न्यायमञ्ज
[ तृतीयम् प्रतिभासात् । ननु तत्रापि विशेषग्रहणं कल्प्यते अन्यथा विच्छेदप्रतीत्यनुपपत्तेः । यद्येवं वर्णेष्वपि गगनादौ विच्छेदप्रतीतिदर्शनात् कल्प्यतां विशेषग्रहणम् ? नन्वस्त्येव तत्, किन्त्वौपाधिकः, स्फटिके रक्तताप्रत्ययवत्। विषमो दृष्टान्तः, स्फटिकस्य शुद्धस्य दृष्टत्वाल्लाक्षापाधिनिमित्तको रक्तताप्रत्ययः, वर्णानान्तु नित्यमेवोदात्तादिविशेषवतां प्रतिभासात् तद्रहितानामनुपलब्धेश्च नैसर्गिक एवायं भेदः। तद्यथा बुद्धीनां घटपटादिविषयविशेषशून्यानामसंवेदनात् प्रतिविषयं नानात्वं तथा वर्णानामपि प्रत्युदात्तादिविशेषं नानात्वम् । ननु बुद्धिरप्येका नित्या च विषयभेदोपाधिनिबन्धनस्तद्भद इति साम्प्रतम्, स्वयमेव बुद्धिजन्म प्रत्यक्षमित्यभिधानात् । अस्माभिश्च
बुद्धिनित्यताया उपरिष्टानिराकरिष्यमाणत्वात्, विषयभेदाच्च तद्भेदाभिधाने 10 विषयस्यापि कुत इदानीं भेदः, बुद्धिभेदादिति चेद् इतरेतराश्रयप्रसङ्गः । तदिमाः रवत एव भेदवत्यो बुद्धयः, विषयाणामपि स्वत इव भेदो भवति स च बुद्धिभियिते इत्यलमर्थान्तरगमनेन । यथा च शुक्लगुणस्य भास्वरधूसरादिभेदवतो
ननु बुद्धिरप्येका नित्या चेति साङ्ख्याभिप्रायेणाह अथवा भट्टदृष्ट्या । यथाह भट्टः
बुद्धीनामपि चैतन्यस्वाभाव्यात् पुरुषस्य नः । नित्यत्वमेकता चेष्टा भेदस्तु विषयाश्रयः ।। स्वरूपेण यथा वह्निनित्यं दहनकर्मकः। उपनीतं दहत्यर्थं दाह्यं नान्यन्तु नान्यदा। यथा वा दर्पणः स्वच्छो यथा वा स्फटिकोऽमलः । यद् यन्निधीयते योग्यं तच्छायां प्रतिपद्यते ॥ तथैव नित्यचैतन्याः पुमांसो देहवृत्तयः। गृह्णन्ति करणानीतान् रूपादीन् धीरसौ च नः ।। तेनोपनीतसम्बन्धभङ्गित्वाद् भङ्गिनी मतिः । न नित्यं दाहको वह्निह्यासन्निधितो यथा ॥ इति ।