________________
आह्निकम् ]
प्रमाणप्रकरणम्
३०७
नन्वत्रोच्यते
दृश्यते शाबलेयादिव्यक्तयन्तरविलक्षणा। बाहुलेयादिगोव्यक्तिस्तेन भेदोऽस्ति वास्तवः ॥ न तु द्रुतादिभेदेन निष्पन्ना सम्प्रतीयते।
गव्यक्तयन्तरविच्छिन्ना गव्यक्तिरपरा स्फुटा ॥ इति नैतद् युक्तम्, शाबलेयादौ प्रतिव्यक्ति सास्नाखुरककुदाद्यवयववतिनो विशेषाः प्रतिभासन्ते। तेच स्थूलत्वात् सुगमा भवन्ति । यत्र तु तिलतण्डुलकुलत्थादौ प्रतिसिक्थं विशेषो न प्रतिभाति तत्र विशेषप्रतीत्यभावेऽपि विच्छेदप्रतिभासो विद्यत एव, सिक्थात् सिक्यान्तरत्वेन प्रतिभासात् । एवमिहाप्येष गकारविशेष इति प्रतिभासाभावेऽपि विच्छेदग्रहणाद् गकारनानात्वम् ।
10 ननु तण्डुलादावपि सिक्थात् सिक्थान्तरे विशेषाः प्रतिभासन्त एव तदप्रति भासे भेदस्यापि ग्रहीतुमशक्यत्वात्, मैवं वादीः, यत्ने सति चतुरश्रत्रिकोगवर्तुलत्वादिविशेषा अप्यमुत्र प्रतिभासिष्यन्ते, प्रयत्नं विनापि तु प्रथमाक्षनिपात एव विच्छेदबुद्धिरुत्पद्यते इति तयैव नानात्वसिद्धिः ।
ननु नैवानधिगतविशेषस्य विच्छेदबुद्धिरुत्पत्तुमर्हति इति विशेषबुद्धिरेव 15 विच्छेदबुद्धिः, नैतदेवम्, भ्रमणादिकर्मक्षगानां सूक्ष्मविशेषाप्रतिभासेऽपि विच्छेद
.
गव्यक्त्यन्तरविच्छिन्ना भेदेन न प्रतीयत इत्यर्थः ।
प्रतिसिक्थं विशेषो न प्रतिभातीति। तिलादीनां हि ये सिक्थगुलकास्ते तुल्यजातयो अनभिलक्ष्यगुणक्रियागतविशेषाश्च । अतो जात्यादिकृतस्तावत् तेषां विशेषोनोपलभ्यते। नापि यथा नित्यानां परमाण्वादीनामन्त्यविशेषसम्बन्धस्तथा तेषामस्ति, 20 अनित्यत्वात् तेषाम् । एवञ्च विशेषानुपलम्भेऽपि यथा तत्र दृष्टत्वाद् भेदबुद्धिर्दुरपहवा तथेहापि भविष्यतीति भावः ।
यत्ने सतीत्यादिनावयवसन्निवेशकृतविशेषदर्शनेन गुणस्य भेदकत्वमाह, कश्चिद् गुलकस्त्रिकोणः कश्चिच्चतुरस्र इति। अवयवसन्निवेशस्य च त्रिकोणत्वादेः संयोगविशेषत्वात् ।