________________
३०६ न्यायमञ्जयां
[ तृतीयम् गत्वसामान्यं स्यात्, वर्णभेदविषयत्वे तु तद्भेदसिद्धरभेदप्रत्ययस्य विषयो मृग्य इति तद्ग्राह्यमपरिहार्य गत्वसामान्यम् । तदुच्यते नायं व्यञ्जकभेदकृतो गकारभेदप्रत्ययः। यदि हि व्यञ्जकभेदाधीन एष भेदप्रतिभासतहि यरलवादिवर्णभेद
प्रत्ययोऽपि तत्कृत एव किमिति न भवति ? ततश्च सकलवर्णविकल्पातीतमेक5 मनक्यवं शब्दब्रह्म वैयाकरणवदभ्युपगन्तव्यम् ।
अथ मनुषे यरलवादीनामितरेतरविभक्तस्वरूपप्रतिभासात् शुकशारिकामनुष्येषु हि वक्तृभेदे सति व्यञ्जकनानात्वसम्भावनया वर्णभेदप्रत्ययस्य तत्कृतत्वं काममाशङ्कयतापि वक्त्रेकत्वे तु गगनादौ कुतस्तत्कृतो भेदः ?
ननु तत्रापि मरुतो भिन्ना एव व्यञ्जकाः मुख त्वेकं भवतु किं तेन ? तदपि 10 वा भिन्नमित्येके । उच्यते स तहि मरुतां भेदो यरलवादिष्वपि तुल्य इति मा भूत्तेषामपि भेदः।
ननु यरलवानां विशेषप्रतीतिरस्ति गकारे तु सा नास्तीत्युक्तं उच्चारणस्यैव तत्र भेदो नोच्चार्यस्येति, नैतत् सारम् । मा भूदेष विशेष इति प्रतीतिर्भेदबुद्धिस्तु
विद्यत एव । अन्या च विशेषबुद्धिरुच्यते अन्या च भेदबुद्धिरिति, विशेषाप्रति15 भासेऽपि क्वचिद् विच्छेदेन प्रतीतिदर्शनात् ।
शब्दब्रह्म वैयाकरणवदिति । यथा वैयाकरणानां उपलभ्यमाना अपि भिन्ना वर्णा निरवयवं शब्दतत्त्वं न भिन्दन्ति व्यञ्जकत्वेन तत्स्वरूपानुप्रवेशाभावात् तेषाम्, एवं भवतोऽपि मीमांसकस्य परोपाधित्वाद् वर्णभेदः शब्दस्वरूपं नानुप्रविशेदिति।
तदपि वा भिन्नमित्येक इति । एक इति वैशेषिकाः, पाकजोत्पत्तिन्यायेन ये आशु20 तरं शरीरस्यारम्भविनाशावाहुः, साङ्ख्या वा परिणामवादिनः, बौद्धा वा क्षणिक
वादिन इति ।
___ अन्या च विशेषबुद्धिरिति । विशेषबुद्धिर्यत्र पदार्थानां प्रातिस्विको विशेषः प्रतिभाति स्पष्टतया यथा 'ग' बुद्धौ यकारादिव्यतिरिक्तवर्णस्वरूपावभासः। अन्या च भेदबुद्धिः। यत्र प्रातिस्विकविशेषाप्रतिभासेऽपि वैलक्षण्यमात्रप्रतिभासो भिन्नवक्तृतयोच्चारितयोरिव गकारयोः। कथं पुनरसति विशेषोपलम्भे पदार्थानां भेदग्रह इत्याह विशेषाप्रतिभासेऽपीति । विच्छेदेनेति । विच्छेदेनान्यत्वेन प्रतीतिदर्शनादिति ।
25