________________
३०॥
आह्निकम् ]
प्रमाणप्रकरणम् येऽपि स्थूलविनाशदर्शनवशाद् ब्रूयुः क्षणध्वंसिनो भावांस्तेऽपि न शक्नुवन्ति गदितुं शब्दस्य विध्वंसिताम् । अन्ते हि क्षयदर्शनात् किल तथा तेषां भ्रमोऽस्मिन पुनः
शब्देनान्तपरिक्षयाविति कथं कुम्भादिवद् भङ्गिता ॥ अत्र ब्रूमहे न खलु भवदभिहितमेतत्प्रमाणद्वयमपि शब्दनित्यतां प्रसाध- 5 यितुमर्हति, यावता यदर्थापत्तिर् अवादि दर्शनस्य परार्थत्वादिति सा क्षीणवार्थप्रतीतेरन्यथाप्युपपन्नत्वात्, तत्र सादृश्यमप्यनभ्युपगतमेव दूषितमित्यस्थाने क्लिष्टा भवन्तः।
गत्वादिजातीराश्रित्य सम्बन्धग्रहणादिकः । अर्थावगतिपर्यन्तो व्यवहारः प्रसेत्स्यति ॥ ननु गत्वं प्रतिक्षिप्तमेतदेव परीक्ष्यताम् । अस्मिन् समाप्यते वादो मर्मस्थानमिदञ्च नः॥ प्रतिक्षिप्ते च गत्वादौ नार्थसम्प्रत्ययोऽन्यथा। प्रत्यभिज्ञानभूमिश्च नान्यास्तीति वयं जिताः॥ सिद्धे तु गत्वसामान्ये तत एवार्थवेदनम् । तदेव प्रत्यभिज्ञेयमिति यूयं पराजिताः॥ तेनान्यत् सर्वमृत्सृज्य वादस्थानक-डम्बरम्।
गत्वादिजातिसिद्धयर्थमथातः प्रयतामहे ॥ गत्वादिसामान्यसाधनोपक्रमः
तत्रेदं विचार्यताम् य एव गकारभेदप्रतिभासः स किं व्यञ्जकभेदकृत 20 उत वर्णभेदविषय इति । व्यञ्जकभेदकृते तस्मिन् एकत्वाद् गकारस्य किंवत्ति
येऽपि स्थूलविनाशेति। योऽयं घटादेर्नुद्गरादिभ्यो असभागसन्ततिरूपः स्थूलो विनाशः प्रत्यक्षमुपलभ्यतेऽसौ विनश्वरस्वभावस्यावश्याभ्युपेयोऽविनश्वरस्वभावस्य वा ? अविनश्वरस्वभावस्य तदभ्युपगमे गगनादेरपि विनाशित्वप्रसङ्गात् । विनश्वरस्वभावत्वे चापेक्षणीयाभावात् प्रतिक्षणमेव विनाशकल्पनेति । सर्वदाभिव्यक्तस्योप- .. लम्भादन्ताभावः॥
95