________________
३०४
5 शब्द नित्यत्वे सिद्धान्तिमतम्
10
न्यायमञ्जय
तेनानुमानदोषेण प्रत्यक्षं न हि दृष्यते । सिद्धान्तान्तरचिन्ता तु भवेद् भृशमसंगता ॥ निर्बाधं प्रत्यभिज्ञानमस्ति चेद् बुद्धिकर्मणोः । तयोरप्यस्तु नित्यत्वं नो चेत् का शब्दतुल्यता ॥
20
[ तृतीयम्
तस्मान्नित्यः प्रत्यभिज्ञाप्रभावात् सिद्धः शब्दः पश्यतां तार्किकाणाम् । • अर्थापत्तिः पूर्वमुक्तः च तस्मिन्नस्थायित्वे युक्तयश्च व्युदस्ताः ॥ अस्ति च वेदे वचनं सिद्धामनुवदति यद् ध्रुव । वाचम् । तल्लिङ्गदर्शनादपि नित्यः शब्दोऽभिमन्तव्यः ॥ शिक्षाविदस्तु पवनात्मकमेव शब्दमाचक्षते तदसमञ्जसमप्रतीतेः । अर्हन्तप्रथितपुद् गल पर्युदासनीत्या च वाय्वयवा अपि वारणीयाः ॥
धकं प्रत्यभिज्ञाबाधितत्वादप्रमाणं कस्मान्नेष्यते । एवञ्च तयोरपि नित्यत्वं प्राप्नोतीत्याशङ्क्याह सिद्धान्तान्तरचिन्तेति ।
निर्बाधं प्रत्यभिज्ञानमिति । अयमाशयः । शब्दे आनुमानिक्यनित्यता, 15 प्रत्यक्षेण च प्रत्यभिज्ञानात्मना नित्यत्वमिति प्रत्यक्षस्य बलीयस्त्वान्निर्बाधा सा प्रत्यभिज्ञा । धीकर्मणोः पुनरानुमानिकी प्रत्यभिज्ञा, अनित्यतायामानुनिकी; ततश्च तुल्यबलत्वात् तत्रानुमानयोर्नास्ति निर्बाधता प्रत्यभिज्ञायाः । बुद्धौ कर्मणि चातीन्द्रियद्रव्याधारे अप्रत्यक्षत्वादनुमानात् प्रतीतिः प्रत्यभिज्ञाया आनुमानिकत्वमुक्तम् । अनित्यत्वमप्यानुमानिकमेव, सर्वदा कार्यानुपलब्धिगम्यत्वात् तस्येति ।
पश्यतां ताकिकाणां पश्यतस्तार्किकान् अनादृत्येर्थः । अर्थापत्तिः पूर्वमुक्ता च तस्मिन् 'दर्शनस्य परार्थत्वात्' इति ।
अनुवदति यद् ध्रुवां वाचं वाचा विरूपनित्ययेत्यादिकम् ।
शिक्षाविदस्त्विति । ते हि मन्यन्ते वाय्ववयवा एव बहिर्निःसृताः शब्दामना स्थूलीभवन्ति । काष्ठेभ्य एव निःसृता धूमावयवाः सूक्ष्माः स्थूलधूमावय25 विजनकतया सम्पद्यन्त इति ।